________________
२३०
इत्यर्थलाभादपह्नुतौ चोपमेयतावच्छेदकस्य पुरस्काराभावान्नातिप्रसङ्ग इति चेत् । न । 'नूनं मुखं चन्द्रः' इत्याद्युत्प्रेक्षायां तथाप्यतिप्रसक्तेः । न च - 'प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपहुतिः ।' 'संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् ।
काव्यमाला |
इत्याद्यपहुत्युत्प्रेक्षादीनां बाधकत्वात्तत्परिगृहीतविषयातिरिक्तो रूपकस्य 'मुखं चन्द्रः' इत्यादिर्विषयः स्यात् । यथा ' शरमयं बर्हिः' इत्येतद्विपयातिरिक्तः 'कुशमयं बर्हिः' इत्यस्य । यथा वा क्सादेशविषयातिरिक्तो विषयः सिचः । लोकेऽपि यथा 'ब्राह्मणेभ्यो दधि देयम्', 'तकं । कौण्डिन्याय' इत्यत्र तत्रसंप्रदानातिरिक्तं दध्नः संप्रदानमिति वाच्यम् । वैषम्यात् । विशेषशास्त्रं हि स्वविषयातिरिक्तं विषयं ग्राहयत्सामान्यशास्त्रस्य बाधकमित्युच्यते । प्रकृते च रूपकस्य लक्षणं धर्मः । स यद्युत्प्रेक्षादिवृत्तिः स्यात् कस्तमस्माद्विषयान्निरस्य विषयान्तरं ग्राहयेत् । नहि घटत्वं खाधिकरणात्पृथिवीत्वं द्रव्यत्वं वा निरस्य विषयान्तरं ग्राहयितुभीष्टे । तस्मादतिप्रसक्तिर्लक्षणेऽस्मिन्दोषः । ननु संभावनात्मिकोत्प्रेक्षा, कथं तस्यामभेदत्वात्मकरूपकलक्षणातिप्रसक्तिरिति चेत् । न । विनिगमकाभावेन संभाव्यमानाभेदस्याप्युत्प्रेक्षावरूपत्वात् । विषयसंभावनाभ्यामुत्प्रेक्षायामलंकारद्वयव्यवहारापत्तेश्च । निश्चीयमानत्वेनाभेदो विशेषणीय इति चेदस्मदुक्त एव तर्हि पर्यवसितिरिति दिक् ।
तदिदं रूपकं सावयवं निरवयवं परम्परितं चेति तावत्रिविधम् । तत्राद्यं समस्तबस्तु विषयमेकदेशविवर्ति चेति द्विविधम् । द्वितीयमपि के - वलं मालारूपकं चेति द्विविधम् । तृतीयं च श्लिष्टपरम्परितं शुद्धपरम्परितं चेति द्विविधं सत्प्रत्येकं केवलमालारूपत्वाभ्यां चतुर्विधमित्यष्टविधमाहुः ।
कारेऽपि । अत्र तस्य पुरस्कारोऽस्तीति भावः । मुखं चन्द्र इति । अत्र गमकाभावात्तदुभयं न । तत्र जैमिनीयं दृष्टान्तमाह-यथा शरेति । आभिचारिके कर्मणि विशेषविहितमिदम् । व्याकरणोक्तं तमाह-यथा वा क्सेति । 'शल इग् -' इति विहितः । ग्राहयत न त्वग्राहयत् । तस्यैव तद्वीजत्वात् । धर्मः अभेदत्वरूपः । संभावनैवोत्प्रेक्षेति पक्षे आह—विषयेति । अलंकारद्वयेति । रूपकोत्प्रेक्षेतीत्यर्थः । नहि प्रधानत्वं तद्विशेषणम् । तत्त्वस्यैव भङ्गापत्तेः । तावत् आदौ । आहुः प्रकाशकारादयः । एत