________________
२२२
काव्यमाला ।
भगवत्सदृशस्य स्मरणेन जनितं भगवतः स्मरणं भगवद्विषयरतिभावाङ्गम् । यदि च ' सदृशानुभवात्' इत्यपहाय 'सदृशज्ञानात्' इति लक्षणे निवेश्यते तदा भवत्यस्यापि संग्रह इति दिकू ।
अथास्य ध्वनिः ।
यथा
-
‘इदं लताभिः स्तबकानताभिर्मनोहरं हन्त वनान्तरालम् । सदैव सेव्यं स्तनभारवत्यो न चेद्युवत्यो हृदयं हरेयुः ॥'
अत्र स्तबकानताभिर्लताभिः स्तनभारवतीनां युवतीनां स्मरणमलंकार्यस्यान्यस्याभावादनुपसर्जनम्, स्तनस्तबकरूपस्य बिम्बप्रतिबिम्बभावमापनस्य साधारणधर्मस्य वाच्यत्वेऽपि तत्प्रयोजितसादृश्यमूलकस्य स्वस्य शब्दवाच्यत्वविरहाद्व्यङ्ग्यं च । युवत्य इति च 'सर्वतोऽक्तिन्नर्थात् ' इति
साधुः ।
यथा वा
'इदमप्रतिमं पश्य सरः सरसिजैर्वृतम् ।
सखे मा जल्प नारीणां नयनानि दहन्ति माम् ॥' अत्रापि सरसिजज्ञानाधीनतत्सदृशनयनस्मृतिः प्राधान्येन ध्वन्यते । अथास्मिन्स्मरणालंकारे उपमादोषाः प्रायशः सर्व एव दोषाः । विशेषतश्च नियमेनास्मिन्व्यज्यमानसादृश्यके सादृश्यस्य शब्दवाच्यतायां दोषः ।
यथा—
‘उपकारमस्य साधोर्नैवाहं विस्मरामि जलदस्य । दृष्टेन येन सहसा निवेद्यते नवघनश्यामः ॥ '
I
सर्वस्वरत्ना]करयोर्प्रन्थयोः । अध्यक्षैः प्रत्यक्षैः । अथ प्रत्यक्षानन्तरम् । अनुपसर्जनमिति । प्रधानमित्यर्थः । एवमलंकारत्वं निरस्य ध्वनित्वमुपपादयितुमाह-स्तनेति । स्वस्य स्मरणस्य । व्यङ्ग्यं च स्मरणमिति पूर्वत्रान्वयः । ङीपि साधुरिति यौतेः शत्रन्तात् वीष्यपि साधुत्वं भवति । 'सर्वतः - ' इत्येतत्पर्यन्तानुधावनं व्यर्थं दुष्टं चेति प्रपञ्चितमन्यत्र । व्यज्येति । अर्थाप्रतीयमानसादृश्यक इत्यर्थः । अत्र स्मरणालंकारे । अस्योपादानादावेवान्वयः । दानयोः सतोरिति शेषः । अत्रापि स्मरणालंकारेऽपि । स्पष्टवाय पुनरुक्तिः । प्रतीयमानो गम्यमानः । साक्षादुपमानोपमेयंविशेषणलेन । यथेति ।