________________
रसगङ्गाधरः ।
२१५
इति । प्रधानावयवस्येव गुणावयवस्यापि विशिष्टार्थावयवत्वात् । घटमान नयेत्यत्र नीलघटवत् ।
'अर्थिभिश्छिद्यमानोऽपि स मुनिर्न व्यकम्पत । विनाशेऽप्युन्नतः स्थैर्यं न जहाति द्रुमो यथा ॥'
अत्र दधीच्यालम्बनायां तदीयलोकोत्तरचरितस्मरणोद्दीपितायामेतत्पद्यप्रयोगानुभावितायामेतत्पद्यनिर्मातृगतायां रतौ प्रधानीभूतायामर्थ्यालम्बनस्तत्कृतयाच्ञाश्रवणोद्दीपितो गात्रच्छेदाभ्यनुज्ञानानुभावितो धृत्या संचारिभावेन पोषितो मुनिगत उत्साहो गुणः । तत्र चाध्यर्धतृतीयचरणगतस्यार्धान्तरन्यासस्योत्कर्षतया स्थितस्य विवेचनद्वारालंकरणम् । चतुर्थचरणशकलगतमुदाहरणम् । एवमेव –
‘अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥' इति कालिदासपद्येऽपि बोध्यम् । अस्मिंश्चालंकारेऽवयवावयविभावबोधकस्येवशब्दादेः प्रयोगः सामान्यविशेषयोरेकरूपविधेयान्वयश्चार्थान्तरन्यासभेदाद्वैलक्षण्याधायक इति तत्प्रकरणे निपुणतरमुपपादयिष्यामः ।
प्राञ्चस्तु “नायमलंकारोऽतिरिक्तः । उपमयैव गतार्थत्वात् । न च -सामान्यविशेषयोः सादृश्यानुल्लासात्कथमुपमेति वाच्यम् । 'निर्विशेषं न सामान्यं -' इति सामान्यस्य यत्किंचिद्विशेषं विना प्रकृतत्वायोगात्ताहशविशेषमादाय विशेषान्तरस्य सादृश्योल्लासे बाधकाभावादिवादिभि
ननु क्रियारूपस्य पूर्ववाक्यार्थस्य कथं द्रव्यरूपः पारदोऽवयव इत्यत आह-प्रधानेति । घटमानयेति । कर्मणः सर्वमते गुणत्वादित्यर्थः । नीलघटवदिति चिन्त्यमिति कश्चित् । अत्रोदाहरण एकवाक्यतासत्त्वेऽपि वाक्यैकवाक्यता पूर्वस्माद्विशेषः । पूर्वत्र तु पदैकवाक्यतैवेति बोध्यम् । स दधीचिः । नन्वेवं कथमलंकारत्वमत आह—- तत्र चेति । रतावित्यर्थः । उत्कर्षकतयेत्यत्रास्यान्वयः । अध्यर्धेति । अर्वाधिकस्तृतीयचरणो यस्मिंस्तद्गतस्येत्यर्थः। अत एव वक्ष्यति — शकलेति । वित्रचनेति । बुद्ध्यारोहेणेत्यर्थः । यस्य हिमाचलस्य । कुमारसंभवस्थं पद्यम् । नन्वेवं सांकर्येण तद्विशेषत्वस्यैवात्र संभवे न कथमलंकारान्तरत्वमत आह-अस्मिंश्चेति । भेदाद्विशेषात् । तत्प्रकेति । अर्थान्तर- न्यासप्रकरण इत्यर्थः । अयमुदाहरणरूपः । नन्वेवमप्यत्रेवादीनां सामान्य विशेषभावा