________________
२००
काव्यमाला। जीवितमित्यालंकारिकसिद्धान्तात् । अन्यथा 'भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम्' इत्यत्राप्युपमेयोपमात्वनिवारणप्रयासवैयर्थ्यापत्तेः । न च तृतीयसदृशसब्रह्मव्यवच्छेदफलकत्वमुपमाविशेषणं वाच्यम् । विशेषणान्तरवैयर्थ्यापत्तेः । विशेषणव्याव-नामाधुनिकविशेषणेनैव वारणात् । अन्योन्यप्रतियोगिकत्वविशिष्टा उपमा एकवृत्तिमात्रवेद्येत्यप्ययुक्तमेव । 'खमिव जलं जलमिव खम्' इत्यादौ खजलयोः सादृश्यान्वये प्रतियोगित्वस्य संसर्गत्वेन वृत्त्यविषयत्वात् । वृत्तिवेद्यानां पदार्थानां संसगों वृत्त्यवेद्य इत्यभ्युपगमात् । अन्यथा प्रकारतापत्तेः । यदप्यलंकारसर्वखकृतोक्तम् 'द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा । तच्छाब्देनोपमानोपमेयत्वप्रत्यवमर्शः । पर्यायो यौगपद्याभावः । अत एवात्र वाक्यभेदः' इति, तन्न । अत्र द्वयोरिति व्यर्थम् । एवस्योपमानोपमेयात्मकत्वे 'गगनं गगनाकारम्' इत्यादौ वाक्यभेदाभावेन पर्यायाभावादेवाप्रसक्तेः । यदि च स्फुटत्वार्थमुपमानोपमेयत्वयोग्यतासंपादकलिङ्गवचनभेदराहित्यप्रतिपत्त्यर्थं कविसमयप्रसिद्धिस्फोरणार्थ वा द्वयोरिति ग्रहणं स्यात् , अथापि प्रागुदीरिते 'अहं लतायाः सदृशीत्यखर्वम्' इति पद्ये प्रतिपाद्यायामुपमायामतिव्याप्तेः ।
'तद्वल्गुना युगपदुन्मिषितेन ताव
त्सद्यः परस्परतुलामधिरोहतां द्वे ।
अन्यथा तुर्यचरणेनैवेष्टार्थलामे मध्ये एतत्कथनानर्थक्यं स्पष्टमेवेति भावः । नन्वेवमपि तृतीयसदृशव्यवच्छेदप्रतीतावेवेयमित्यत्र किं विनिगमकमत आह-तृतीयेति । सब्रह्मेति । सदृशेत्यर्थः । एवमग्रेऽपि बोध्यम् । 'सिद्धान्त' इति पाठः । 'सिद्धान्तात्' इत्यपपाठः । अन्यथा तस्य तज्जीवितत्वानङ्गीकारे । वाच्यमिति । 'अहं लतायाः' इत्यत्रातिव्याप्तिवारणायेदानीं वक्तव्यमित्यर्थः । विशेषणान्तरेति । अन्योन्येनेत्यादी. त्यर्थः । नन्वेवं कथमुक्तदोषनिरासोऽत आह-विशेषणेति । विशेषणान्तरेत्यर्थः । तदुकमन्यदूषयति-अन्योन्येति । प्रतियोगित्वस्येति । अनुयोगिल विशिष्टेयादिः । ननु तस्य वृत्तिविषयवं कुतो नेत्याह-वृत्तीति । उक्तप्रन्थस्यैकवृत्तिमात्रवेद्यले न तात्पर्य किं तु वृत्तिद्वयवेद्यलाभावे । यद्वा तजन्यप्रतीतो यथाकथंचिद्भासमानत्वमेव तन्मात्रवेद्यत्वम् । अस्ति च 'खमिव जलम्' इत्यादौ । नास्ति च तत्रेति तन्निरास इत्याशयेनादोषाचिन्यमिदम् । द्वयोरिति । द्वयोः पर्यायेण तस्मिन्सतीत्यर्थः । अत्रेत्यस्यात इत्यादिः । ननु स्फुटार्थवेऽन्येषामपि निवेशः कुतो नात आह-उपमेति । तद्भेदेऽपि तद्योग्यतायाः सत्त्वादाह-कवीति । इष्टापत्त्या नातिव्याप्तिरत आह-तदिति ।