________________
रसगङ्गाधरः ।
१९९
धर्माश्रयेति विशेषणात् 'रजोभिर्भूरिव द्यौर्घनसंनिभैर्गजैश्च द्यौरिव भूः " इति कस्यचित्पद्यस्यार्थे परस्परोपमायां नातिव्याप्तिः । तत्रोपमा प्रयोजकधर्मैक्याभावाद्भूतलोपमानिकायां प्रयोजकस्य रजसामनुगामिधर्मस्य नभस्तलोपमानिकायां प्रयोजकस्य घनसदृशगजानां विम्बप्रतिबिम्बभावापन्नधर्मस्य च भेदात् । ' व्यक्त्येति च विशेषणं व्यनयोपमेयोपमासंग्रहार्थमितीदमुपमेयोपमात्वप्रयोजकं लक्षणमिति, तन्न ।
'अहं लतायाः सदृशीत्यखर्व गौरानि गर्वं न कदापि यायाः । गवेषणेनालमिहापरेषामेषापि तुल्या तव तावदस्ति || '
अत्रान्योन्य प्रतियोगिकत्वविशिष्टाया उपमायास्तनुत्वादिरूपैकधर्माश्रयाया वृत्त्यन्तरेण शक्त्या बोधनादुपमेयोपमात्वापत्तेः । न चात्रान्योन्यप्रतियोगिकत्वमुपमायां न प्रतीयते । लतादिसंबन्धिसादृश्याश्रयत्वस्यैवास्मत्पदार्थे ऽन्वयादिति वाच्यम् । 'मुखस्य सदृशश्चन्द्रश्चन्द्रस्य सदृशं मुखम्' इत्युपमेयोपमायामव्याप्तेः । नह्यहं लताया इत्यत्रोपमेयोपमा भवितुमर्हति । गर्व - मात्रनिरासपरत्वेनोत्तरार्धोपमायास्तृतीयसदृशव्यवच्छेदाप्रतिपत्तेः । अत एव अन्यान्यपि तव सदृशानि सन्त्येव तेषां गवेषणेन किं फलमित्येतदर्थकं गवेषणेनेत्युत्तरार्धं संगच्छते । तृतीयसब्रह्मचारिव्यवच्छेदो ह्युपमेयोपमा
रकथनासंगतेरिति भावः । अर्थे इति । अर्थरूपायां तस्यामित्यर्थः । रजसामिति । प्रयोजक भूतरजोभिन्नानुगामिधर्मस्येत्यर्थः । समानविभक्तिकत्वस्येव समानवचनत्वस्याभेदान्वये न तन्त्रत्वमिति भावः । एवमग्रेऽपि । घनगजयोर्भेदेन साधारणले कथमत आह - बिम्बेति । प्रयोजकमिति । अनुगतानतिप्रसक्तलक्षणमात्रं तु 'सदृशस्य तृतीयस्य व्यवच्छेदाय यद्वयोः । अन्योन्येनोपमेयत्वमुपमेयोपमा मता ॥' इति द्रष्टव्यम् । अत्रान्योन्येनेति विशेषणम् 'अहमेव गुरुः सुदारुणानाम्' इति प्रतीप विशेष व्यावृत्त्यर्थमिति भावः । अहमिति । लतानुयोगिकसादृश्याश्रयाहमित्यर्थः । अखर्वं महान्तम् । एषापीति । त्वदनुयोगिकसादृश्यप्रतियोगि केत्यर्थः । अत्रेत्यस्य इतीत्यादिः । तनुखेत्यस्य अनुपात्तेत्यादिः । लतादीति । लताद्यनुयोगिकसादृश्य प्रतियोगि कत्वस्यैवेत्यर्थः । एवेन सादृश्यव्यवच्छेदः । सादृश्यादिपदानां धर्मिबोधकत्वात् । एवं च सादृश्यस्य तत्रान्वये इयं न तु तत्रेति भावः । मुखस्येति । अत्रापि सदृशपदसत्त्वेन तत्तुल्ययोगक्षेमवादिवि भावः । नन्वेवं तथा दुर्वचमिति यथैतत्संग्रहस्तथाह - लताया इति । अस्यापि संग्रह इष्ट एवेत्यतिव्याप्तिर्नात आह-न ह्यहमिति । ननु तन्मात्रपरत्व एव किं बीज - सत आह— अत एवेति । तत्परत्वेन तस्याः साफल्या देवेत्यर्थः । उत्तरार्थं तदेकदेशः ॥