________________
काव्यमाला ।
यथा वा
'विमलतरमतिगभीरं सुपवित्रं सत्त्ववत्सुरसम् । हंसावासं स्थानं मानसमिह शोभते नितराम् ॥' अत्रानेकार्थानामपि शब्दानां प्रकरेण कृतेऽपि शक्तिसंकोचे तन्मूलकेन ध्वननेन प्रतीयमानस्य सरोवररूपस्यार्थान्तरस्याप्रस्तुतस्याभिधानं मा भूदिति प्रकृताप्रकृतयोरुपमानोपमेयभावः प्रधानवाक्यार्थतया कल्प्यते । द्वितीयो यथा
'अद्वितीयं रुचात्मानं दृष्ट्वा किं चन्द्र दृप्यसि ।
भूमण्डलमिदं सर्वं केन वा परिशोधितम् ॥' अत्र मूढादिपदाप्रयोगादसूयादेरप्रत्ययान्मुख्यतयोपमैव व्यङ्गया ।
अथात्र सादृश्यस्य पदार्थान्तरत्वे बोधो विचार्यते—अरविन्दसुन्दरमित्यत्रारविन्दनिरूपितसादृश्यप्रयोजकं लक्ष्यते । तच्च सुन्दरपदार्थंकदेशेन सौन्दर्येणाभेदसंसर्गेणान्वेति । तेनारविन्दनिरूपितसादृश्यप्रयोजकाभिन्नसौन्दर्यवदभिन्नमिति धीः । निपातातिरिक्तनामार्थयोर्भेदेनान्वयस्याव्युत्पन्नत्वादभेदानुसरणम् । एकदेशान्वयस्तु देवदत्तस्य नप्तेत्यादाविवात्राप्यभ्युपेयः । 'समासस्यैव विशिष्टार्थे शक्तिः' इत्येके । 'अरविन्दपदमेव लक्षणया सर्वार्थबोधकं सुन्दरपदं तु तात्पर्यग्राहकम्' इत्यपरे ।
तथा अरविन्दमिव सुन्दरमित्यत्रेवार्थे सादृश्येऽरविन्दस्य निरूपितत्वसंसर्गेणान्वयः । तस्य च प्रयोजकतासंसर्गेण सौन्दर्ये । एवं चारविन्दनिरूपितसादृश्यप्रयोजकसौन्दर्यवदभिन्नमिति । अरविन्दमिवेत्यत्र त्वरविन्दनिरूपितसादृश्यवदिति निपातजन्योपस्थितिप्रयोज्यप्रकारतानिरूपितसत्त्वं प्राणी बलं च । रसो जलं शृङ्गारादिश्च । हंसः पक्षी परमात्मा च । अत्रेति । उदाहरणद्वये इत्यर्थः। अद्वितीयमिति ।वाशब्दो हेवर्थः । असूयादेरप्रत्ययादिति। अत्र मूढादिपदाप्रयोगेऽपि किं चन्द्र दृप्यसीत्याक्षेपेणासूया व्यङ्ग्या न वेति सहृदयैर्विभाव्यम् । लप्स्य (क्ष्यत इति । अरविन्दपदेनेति शेषः। अभेदानुसरणमिति।प्रयो: कसौन्दर्ययोरिति भावः। ननु नित्यसाकाङ्क्षस्थले तथाङ्गीकारेऽप्यत्र न तथेति चेदत एव मरन्तरमाह-समासेति । अत्र मते गौरवान्मतान्तरमाह-अरविन्देति । तथेति समस्तवद्यस्तेऽपीत्यर्थः । ननु विशेष्यतया नामार्थप्रकारकारकबोधे विशेष्यतया विभक्ति जन्योपस्थितेर्हेतुलात्कथमिवार्थसादृश्येऽरविन्दस्यान्वयस्तस्य च कथं सौन्दर्येऽन्वयोऽ