________________
रसगङ्गाधरः।
इदं चान्यत्तस्मिन्नेव प्रस्तावे चित्रमीमांसाकृद्भिरभ्यधीयत___ "नृणां यं सेवमानानां संसारोऽप्यपवर्गति ।
तं जगत्यभजन्मर्त्यश्चञ्चा चन्द्रकलाधरम् ॥' अत्र किप्कनोोपे प्रत्येकं वाचकधर्मलोप उभयत्रापि,” तदरमणीयमेव । कनो वाचकस्य लोपेऽपि तं चन्द्रकलाधरमभजन्निति चन्द्रकलाधरभजनराहित्यरूपस्य धर्मस्य चञ्चामर्त्यसाधारणस्योक्तत्वात्कथं तावद्धर्मस्य लोपः । न चोपमेयमर्त्यविशेषणतयोपातस्य चन्द्रकलाधरभजनराहित्यस्य सादृश्योपसर्जने चञ्चायामनन्वयान्न साधारण्यमिति वाच्यम् ।
"यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति ।
तं शंभुमभजन्मर्त्यश्चञ्चैवात्महिताकृतेः ॥' इति पाठे धर्मश्रवणमप्युभयत्रापि संभवति" इति खोक्तेरसंगतत्वापत्तेः । इहाप्युपमेयसंसारविशेषणतयोपात्तस्य सुखमयत्वस्य सादृश्योपसर्जनेऽपवर्गेऽन्वयाभावात्कथंकारं धर्मस्य साधारण्यम् । उपमेयगतत्वेनोपमानगतत्वेन वोपात्तस्य धर्मस्य शाब्द उभयान्वये सत्यपि वस्तुत उभयवृत्तित्वज्ञानमेव साधारणतया नियामकमिति चेत्, चन्द्रकलाधरभजनराहित्येऽपि दीयतामेवमेव दृष्टिः । यदि चोपमेयतावच्छेदकतयैव चन्द्रकलाधरभजनराहित्यं मम विवक्षितम् , साधारणधर्मश्च स्वात्महिताकरणरूपः स चात्र लुप्त एवेति शपथेन खाभिप्रायः प्रकाश्यते तदा निवारितोऽयं दोषः । तुष्यतु भवान् । इदमप्यन्यत्तैरेव वाचकोपमेयलुप्तायामुदाहरणं निरमीयत
'रूपयौवनलावण्यस्पृहणीयतराकृतिः ।
पुरतो हरिणाक्षीणामेष पुष्पायुधीयति ॥' इदं च पद्यमपशब्ददुष्टमवैयाकरणतां कर्तुः प्रकाशयति । तथा हि पुरत इति नगरवाचिनः पुरशब्दात्तसिलि हरिणाक्षीणां नगरादित्यर्थस्यासंगतेः ।
मिदम् । इदं चान्यदिति । वक्ष्यमाणमन्यचेत्यर्थः । क्विब्लोपे तथोक्तेर्युक्तत्वेऽपि कन्लोपेऽयुक्तलमित्याह-कन इति । तामुपपादयति-इहापीति । कथंकारं कथंकृता । पाठान्तरवादी खाशयमाह-उपमेयेति । एवमेवेति । एवं च तुल्यतेति भावः। प्रकारान्तरेण स खाशयमाह-यदि चेति । इदमप्यन्यदिति । वक्ष्यमाणमित्यर्थः । तसिलीति । इदं चिन्त्यम् । तदप्राप्तेः । आद्यादिखात्तसावित्युचितम् ।