________________
१६९
रसगङ्गाधरः ।
उपमानलुप्ता वाक्यसमासयोर्द्विविधोपवर्णिता तृतीयापि दृश्यते
' यच्चोराणामस्य च समागमो यच्च तैर्वधोऽस्य कृतः । उपनतमेतदकस्मादासीत्तत्काकतालीयम् ॥'
इत्यत्र काकतालशब्दयोर्लक्षणया काकागमनतालपतनबोधकयोरिवार्थे 'समासाच्च तद्विषयात्' इति ज्ञापकात्समासे काक इव ताल इव काकतालमिति ‘काकतालसमागमसदृशश्चोराणामस्य च समागम इत्यर्थः । ततः काकतालमिवेति द्वितीय इवार्थे पूर्वोक्तेनैव सूत्रेण छप्रत्यये तालपतनजन्यकाकवधसदृशश्चरकर्तृको देवदत्तवध इत्येवं स्थिते प्रत्ययार्थोपमायामुपमानस्य तालपतनजन्यकाकवधस्यानुपादानादुपमानलुप्ता । वाचकोपमानलुप्ता तु नाम्नैव निर्दिष्टा । साप्यत्र प्रकृत्यर्थे दृश्यते । धर्मोपमानलुप्ता वाक्यसमासयोर्द्विविधैवोक्ता । सा चात्रापि तृतीयचर - णोक्तधर्मनिरासे प्रत्ययार्थे दृष्टा ।
--
वाचकधर्मलुप्ता किप्समासयोर्द्वयोरेव कथिता । सापि ' चञ्चा पुरुषः सोऽयं योऽत्यन्तं विषयवासनाधीनः' इत्यत्र स्वहिताकरणरूपस्य धर्मस्या - नुपादाने को लोपे विलोक्यते । एवं च द्वात्रिंशद्भेदा ।
अत्रेदमवधेयम्—कर्माधारक्यचि क्यङि च वाचकलुप्तोदाहरणं प्राचामसंगतमिव प्रतीयते । धर्मलोपस्यापि तत्र संभवात् । न च क्यजाद्यर्थ आचार एव साधारणधर्मोऽस्तीति वक्तव्यम् । धर्ममात्ररूपस्याचारस्योपमाप्रयोजकत्वाभावात् । 'नारीयते सपलसेना' इत्यादौ वृत्त्यन्तरनिवेदितैः कातरत्वादिभिरभिन्नतयाध्यवसितस्याचारस्योपमानिष्पादकत्वात् । यदि च
1
चरतीत्यर्थः । पूर्वोक्तॆन ‘समासाच्च -' इत्यनेन । स्थिते इत्यस्यार्थे इत्यादिः । तृतीयचरणोक्तेति । 'उपनतमेतदकस्मात् ' इत्यस्य स्थाने चरणान्तरनिर्माण इत्यर्थः । धर्मलोपस्यापीति । 'उपमानादाचारे' इत्यत्रोपमानमाचारनिरूपितमेव गृह्यते । उदाहरणे च पुत्रपदस्य पुत्रकर्मकाचारसदृशे लक्षणेति वैयाकरणमते च सुतरां धर्मलोपः न चैतन्मते ‘त्रिविष्टपं तत्खलु भारतायते ' इत्यत्र क्यचोऽनुपपत्तिः । भारताचारसदृशाचारस्य त्रिविष्टपवृत्तेरप्रसिद्धेः । ‘सुपर्वभिः शोभितम्' इत्यस्य श्लेषेणाभेदाध्यवसाय एव, न सादृश्यावसाय इति वाच्यम् । एकशब्दोपात्तत्वेनाभेदबुद्धेरिव शब्दरूपसाधर्म्येण साह - श्यबुद्धेरप्युपपत्तेः । इत्याहुः । ननु नारीयते इत्यादौ तस्य तत्त्वमस्तीत्यत आह- नारीति ।
१५ रस०