________________
रसगङ्गाधरः।
१५५
प्रतिपाद्यस्यार्थस्य विवरणं युज्यते । इत्थं च लक्षणाया एवाभ्युपगम्यतया सत्यां च तत्प्रयोजनीभूतताद्रूप्यप्रतिपत्तौ कथमुपमा द्विलुप्ता तत्र प्राचीनरुक्तेति चेत् , अत्रोच्यते-उपमितसमासस्य भेदघटितोपमानसादृश्यविशिष्टोपमेये शक्तेस्तद्धटकीभूतोपमानशब्दस्य भेदघटितसादृश्यविशिष्टे निरूढलक्षणाया वा खीकाराददोषः । इयमेव निपातानामिवादीनां द्योतकतानये मुखं चन्द्र इवेत्यादौ वाचकलुप्तायामुपमायां च गतिरनुसरणीया । वाचकलोपस्तूपमानायकरम्बितसादृश्यतद्विशिष्टान्तरप्रतिपादकशब्दशून्यत्वादुपपादनीयः । यच्च 'विद्वन्मानस-' इत्यत्र दूषणमभिहितं तद्रूपकप्रकरणे परिहरिष्यते । यदप्युक्तं रूपके सदृशलक्षणायाः फलं ताद्रूप्यप्रत्ययो न युज्यते । तत्सदृश इति शब्दजबोधानन्तरमपि तथा प्रत्ययापत्तेरिति, तन्न । तत्सदृश इत्यत्र लक्षणाया अभावेन ताद्रूप्यप्रत्ययस्यापादानायोगात् । ताद्रूप्यप्रत्ययो लक्षणायाः फलमिति प्राचां समयः। महाभाष्यादिग्रन्थानामस्मिन्नेवानुकूलत्वाच्च । नव्यनये तु तेषामाकुलीभावः स्यादिति दिक् ।
उक्तदोषे चेत्यर्थः । द्विलुप्तेति । उक्तरीत्या धर्मवाचकयोः सत्त्वेन कथं धर्मवाचकलुप्तोतेत्यर्थः । विशिष्टशक्तौ गौरवादाह-तद्धटकीति । भेदघटितेति । तथा च साधारणधर्माभानाद्धर्मलुप्तवं सुस्थम् । नन्वेवमपि ताद्रूप्यप्रतीत्या कथं धर्मलुप्तत्वमत आहनिरूढलक्षणेति । इयमेवेति । उक्तैव गतिरित्यर्थः। धर्मलुप्तोदाहरणमाह-मुखं चन्द्र इवेति।वाचकलुप्तायामिति। तडिगौरीत्यादावित्यर्थः । नन्वेवमपि सादृश्यवाचकस्योपमानशब्दस्यैव सत्त्वात्कथं वाचकलुप्तत्वमत आह-वाचकेति । वाक्ये इवानुपादाने वाचकलुप्तवात्सादृश्येति (?) । समसदृशाद्यप्रयोगे तत्त्वायाह-तद्विशिष्टेति । सादृश्याविशिष्टेत्यर्थः । परिहरिष्यत इति । अयं भावः--उपमेयोपमानयोरभेद एव रूपकमिति मते सादृश्यज्ञानमूलकाभेदप्रतीतिविषय एव सः । एवं च 'पौरुषाब्धेस्तरङ्गः । प्रत्यर्थिवंशोल्बणविजयकरिप्रौढदानाम्बुपट्टः खड्गो मालवस्य' इत्यादौ खड्गशब्दात्प्रतीयमानदानाम्बुपट्टानेदे प्रत्यर्थिषु वंशाभेदप्रतीतिमूलकतजातिसंबन्धिवरूपं साधर्म्य मूलम् । प्रत्यर्थिषु वंशाभेदे च खड्ने दानाम्बुपट्टाभेदप्रतीतिमूलकतद्भज्यमानत्वम् । तस्मादवश्यं रूपके लक्षणा । तथेति । ताद्रूप्येत्यर्थः । रूपके लक्षणा । अत्र युक्त्यन्तरमाहमहाभाष्यादीति । तथा च 'पुंयोगादाख्यायाम्' इति सूत्रे भाष्यम्-'भिन्नानामभेदाभावात् , कथं पुनस्तस्मिन् स इत्येतद्भवति । चतुर्भिः प्रकारैस्ताद्रूप्यमारोप्यते, न तु मुख्यम् । तात्स्थ्यात् , ताद्धात् , तत्सामीप्यात, तत्साहचर्यात्, इति । तात्स्थ्याद्यथा