________________
१५४
काव्यमाला ।
र्मञ्जुमञ्जीरशिञ्जितमनोहरताया अनुपपत्तेः । उपमितसमासायत्तोपमायां तु प्रधानस्य पादस्य पादत्वेनैव प्रतीतस्य नास्ति तस्या अनुपपतिरिति न कोऽपि दोषः । न चोपमितसमासे पूर्वपदार्थस्योपमेयस्योपमेयतावच्छेदकतयैव प्रतीतिरिति न युक्तम् । 'वक्रे चन्द्रमसि' इति प्रागुक्तरूपक इवोपमानताद्रूप्यवद भेदबुद्ध्या तत्ताद्रूप्यस्यात्रापि प्रतिपत्तुं शक्यत्वाल्लक्षणायास्तुल्यत्वादिति वाच्यम् । उपमितसमासे भेदघटितसादृश्यस्य लक्ष्यकोटिप्रविष्टतया वैलक्षण्यस्य वक्ष्यमाणत्वात् । यदप्युक्तं सादृश्यस्य शब्देनोपादानादुपमात्वापत्तिरिति, तदपि न । भेदाकरम्बितसादृश्य विशिष्टस्य रूपके लक्ष्यत्वादुपमाव्यपदेशस्याप्रसक्तेः । ' सादृश्यमुपमा भेदे' इति तत्सिद्धान्तात् । ननु यत्र भेदघटितसादृश्यवति वक्रा लक्षणया मुखं चन्द्र इति प्रयुक्तं तत्र तथाप्युपमालंकारापत्तिः स्थितैवेति चेत्, भेदघटित - सादृश्यप्रतिपिपादयिषाकाले लक्षणया तद्वति शब्दप्रयोगस्य विरुद्धत्वात् । लक्षणायास्ताद्रूप्य प्रतिपिपादयिषाधीनत्वात् । नहि प्रयोजनमनुद्दिश्य रूढिव्यतिरिक्तया लक्षणयार्थं प्रतिपादयन्त्यार्याः । भेदताद्रूप्ययोर्विप्रतिषिद्धत्वेन युगपत्प्रतिपत्तबुद्धयपारोहासंभवाच्च । अथोपमितस - मासे पुरुषव्याघ्र इत्यादावुत्तरपदस्य स्वार्थसदृशे लक्षणैवोपगन्तव्या । अन्यथा बोधकाभावेन समासे सादृश्यप्रत्ययो न स्यात् । न च व्याघ्र इवेतीवशब्दस्तद्बोधक इति वाच्यम् । तस्य समासे संबन्धाभावात् । सति च संबन्धे तन्निवृत्तेरयोगात् । निवर्तकशास्त्रस्याभावात् । विग्रहवाक्यगतस्त्विवशब्दः स्वघटितवाक्यस्योपमा प्रतिपादकत्वं संपादयितुमीष्टे, न वाक्यान्तरस्य । तस्य विवरणत्वानुपपत्तेश्च । नहि विवरणीयवाक्यगतशब्दा
मनोहरताया इत्यर्थः । उपमानताद्रूप्येति । उपमानसदृशयोरेकपदोपात्तत्वेनोपमानताद्रूप्यवत्सदृशाभेदबुद्ध्या उपमेये उपमानताद्रूप्यस्योपमायामपि ज्ञातुं शक्यत्वादित्यर्थः । तत्र हेतुमाह - लक्षणेति । रूपके इवोपमितसमासे वाचकेवशब्दस्याभावेन लक्षणासत्त्वेन तस्याः समत्वादित्यर्थः । भेदाकरम्बीति । भेदाविशिष्टेत्यर्थः । दोषान्तरमाह - भेदेति । संबन्धाभावादिति । द्वयोरेव पदयोः समासादिति भावः । अभ्युपेत्याहनसति चेति । उपमाप्रतीति । उपमालंकारप्रतीत्यर्थः । वाक्यान्तरस्य समासवाक्यस्य नु समासे मास्तु सादृश्यप्रतीतिरत आह-तस्येति । विग्रहवाक्यस्येत्यर्थः । इत्थं च ।
.