________________
११०
काव्यमाला।
अपरामूलो यथा'बधान द्रागेव द्रढिमरमणीयं परिकरं
किरीटे बालेन्दु नियमय पुनः पन्नगगणैः । न कुर्यास्त्वं हेलामितरजनसाधारणधिया
जगन्नाथस्यायं सुरधुनि समुद्धारसमयः ॥' अत्र जगन्नाथस्येत्यनेन शक्य एवानेकपापविशिष्टत्वेन लक्ष्यते । पापानां पदान्तरेणानिर्वाच्यत्वं व्यङ्ग्यम् । कुन्ताः प्रविशन्तीत्यादौ तु वाच्यगततैक्ष्ण्यादिलक्ष्यम् । तदेवमेते प्रागुक्ता द्वयुत्थातिरिक्ताः सर्वेऽपि ध्वनय एकस्मिन्वाक्ये यद्येकपदमात्रगतास्तदा पदध्वनितया व्यपदिश्यन्ते । नानापदगततायां तु वाक्यध्वनितयेति । ___ अथ केयमभिधानाम यन्मूलः प्रथमं निरूपितोऽयं ध्वनिप्रपञ्चः । उच्यते
शक्त्याख्योऽर्थस्य शब्दगतः, शब्दस्यार्थगतो वा संबन्धविशेषोऽभिधा॥
सा च पदार्थान्तरमिति केचित् । “अस्माच्छब्दादयमर्थोऽवगन्तव्य इत्याकारेश्वरेच्छैवाभिधा । तस्याश्च विषयतया सर्वत्र सत्त्वात्पटादीनामपि घटादिपदवाच्यता स्यात् । अतो व्यक्तिविशेषोपधानेन घटादिपदाभिधात्वं वाच्यम्' इत्यपरे । 'एवमपीश्वरज्ञानादिना विनिगमनाविरहः स्यात् , अतः प्रथममतमेव ज्यायः' इत्यपि वदन्ति । यत्तु वृत्तिवार्तिके—'शक्त्या प्रतिपादकत्वमभिधा' इत्यप्पयदीक्षितैरुक्तं तत्तुच्छम् । उपपत्तिविरोधात् । तथाहि-इह शब्दाज्जायमानायामर्थोपस्थितौ कारणीभूतं यदीयज्ञानं सा शब्दवृत्तिरभिधाख्या । लक्ष्यतया च प्रस्तुताप्रतिपादकत्वस्य प्रतिपत्तिहेतुत्वरूपस्य शब्दगतस्य न ज्ञानं प्रतिपत्तौ कारणम् । अतः कथं
अपरेति । अजहत्वार्थेयर्थः । द्रढिमेति तृतीयातत्पुरुषः। नियमय बधान । शक्य एवेति । जगन्नाथवेनेति शेषः । अनेनाजहत्वार्थवं प्रकटितम् । पदान्तरेण जगन्नाथपदातिरिक्तन । तैष्ण्यादिलक्ष्यमिति । वाच्यार्थगतं यत्तेक्षण्यादि तलक्ष्यवृत्तितया व्यङ्ग्यमित्यर्थः । उपसंहरति-तदेवमिति । विनिगमनाविरहादाह-शब्दस्येति । केचित् , वैयाकरणमीमांसकादयः । अपरे, नैयायिकाः । एवमपि उक्तरी