________________
रसगङ्गाधरः।
कारा हि वाच्यसौन्दर्यसाराः प्रायशः खान्तगतं प्रतीयमानं पृष्ठतः कुर्वन्ति । 'देवाः के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्ता
देवं जल्पन्ति तावत्प्रतिभटपृतनावर्तिनः क्षत्रवीराः । यावन्नायाति राजन्नयनविषयतामन्तकत्रासिमूर्ते ___ मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजंगः ॥'
अत्र कविप्रौढोक्तिसिद्धेन रूपकेण त्वय्युद्यतकरवाले सति का परेषां जीवनस्याशेति वस्तु व्यज्यते । 'साहंकारसुरासुरावलिकराकृष्टभ्रमन्मन्दर
क्षुभ्यत्क्षीरधिवल्गुवीचिवलयश्रीगर्वसर्वकषाः । तृष्णाताम्यदमन्दतापसकुलैः सानन्दमालोकिता __ भूमीभूषण भूषयन्ति भुवनाभोगं भवत्कीर्तयः ॥'
अत्र कीर्तेः सानन्दालोकनेन वस्तुना कविकल्पितेन दुग्धभ्रान्तिस्तापसगता व्यज्यते । न च सानन्दालोकनस्यैव चाक्षुषभ्रान्तिरूपतया व्यङ्ग्यव्यञ्जकयोरविवेको व्यङ्ग्यत्वानुपपत्तिश्चेति वाच्यम् । वस्तुन एकत्वेऽपि कीर्तिरूपविशेष्यावृत्तिदुग्धप्रकारकत्वात्मकभ्रान्तित्वेन सानन्दावलोकनत्वेन च व्यङ्ग्यव्यञ्जकविवेकस्य व्यङ्ग्यतावच्छेदकरूपेण वाच्यताया अभावाद्यङ्ग्यत्वस्य चोपपत्तेः । तथा चाहुः—'यदेवोच्यते तदेव व्यङ्ग्यम् । यथा तु व्यङ्ग्यं न तथोच्यते' इति ।
योक्तेति । 'पर्यायोक्तं तु गम्यस्य वचो भङ्ग्यन्तराश्रयम् ।' इत्युक्तेति भावः । हि यतः । देवा इति । कविप्रौढोक्तिनिष्पन्नालंकारेण वस्तुनो यथेत्यादिः । के इति मध्यमणिन्यायेनान्वेति । पूर्वदेवा असुराः । समिति सङ्ग्रामे । मम पुरस्तादित्यन्वयः । नर इति जसन्तम् । मुग्धेति । मुग्धरूपशत्रुसंबन्धिप्राणरूपदुग्धभोजनकृतस्निग्धकान्तिरित्यर्थः । रूपकेण खड्गसर्परूपकेण । साहंकारेति । कविप्रौढोक्तिनिष्पन्नवस्तुना अलंकारस्य यथेत्यादिः । व्याख्यातमिदमधस्तात् । अविवेकोऽभेदः । इदं च व्यङ्ग्यत्वमभ्युपेत्य वस्तुनस्तदेव नेत्याह-व्यङ्ग्यत्वेति । वाच्यत्वात्तस्येति भावः । कीर्तीति । यथासंख्यमन्वयः । उपपत्तेरिति । 'शयिता सविधे-' इत्यत्र । 'व्यङ्ग्यतावच्छेदकेच्छाखरूपजातिरूप' इति पाठः । तेन रूपेणैव मनोरथपदेन बोधनान पूर्वग्रन्थविरोधः ।