________________
१३३
रसगङ्गाधरः ।
रोमणित्वादि विशेषणश्रवणविशिष्टप्रफुल्लविलोचनत्वेन मदुपभोग्यत्वलक्षणविभावाभिव्यक्तिद्वारा हर्षभावोऽभिव्यज्यते । तत्र द्वारीभूतविभावाभिव्यक्तिमादाय काव्यप्रकाशग्रन्थसंगतिः । न च भावध्वनेः संलक्ष्यक्रमत्वापत्तिः, द्वारस्य संलक्ष्यक्रमत्वादिति वाच्यम् । इष्टापत्तेः । न चापसिद्धान्तः । तस्य प्रागेवोद्धारात् ।
'मुद्रीका रसिता सिता समशिता स्फीतं निपीतं पयः स्वर्यातेन सुधाप्यधायि कतिधा रम्भाधरः खण्डितः । तत्त्वं ब्रूहि मदीय जीव भवता भूयो भवे श्राम्यता कृष्णेत्यक्षरयोरयं मधुरिमोद्वारः कचिल्लक्षितः || ' अत्र निष्कृष्टजीवसंबोध्यकपरिदृश्यमानस्थूलदेहेन्द्रियादिचेतनाचेतनसंघातात्मकास्मत्पदबोध्यकर्तृकप्रश्नविषयेणार्थेन वस्तुना तथाभूतेन भग
वन्नाम्नोऽनेकजन्मवृत्तान्ताघ्यक्षीकरणकारणयोगसिद्धिविशेषतादात्म्याध्यवसायरूपातिशयोक्तिर्व्यज्यते । अथ प्रश्नविषयस्यात्र नानाजन्मगतवृत्तान्तरूपतया तज्ज्ञं प्रत्येव प्रष्टुमौचित्येनानभिज्ञं खजीवं प्रति प्रष्टुमयोम्यत्वात्प्रश्नान्यथानुपपत्त्या आक्षिप्ता वाच्यसिद्ध्यङ्गत्वेन गुणीभूतव्यङ्ग्यरूपा वा प्रागुक्तातिशयोक्तिरिह कथं ध्वनिव्यपदेशहेतुः स्यात् । इत्थमेव च ‘तदप्राप्तिमहादुःख–' इत्यत्राप्यतिशयोक्तेरर्थापत्तिविषयत्वं गुणीभूत
1
यस्तादृशपरिफुडविलोचनत्वरूपो धर्मस्तेनेत्यर्थः । तस्यैकपदाबोध्यत्वादर्थंवशप्रापितेत्युतम् । विभावेति । हर्षभाव विभावेत्यर्थः । भावध्वने ईर्ष भावध्वनेः । द्वारस्य तद्विना - भावाभिव्यक्तिरूपस्य । तस्येति । अपसिद्धान्तत्वस्येत्यर्थः । तथा च सिद्धान्त एवायमिति भावः । मृद्वीकेति । स्वतः संभविवस्तुनालंकार ध्वनिर्यथेत्यादिः । मृद्वीका द्राक्षा । सिता खण्डशर्करा । स्वर्यातेन स्वर्गं प्रति गतेन । अपेः समुच्चयमाह – रम्भेति । भूयः पुनः। अयं सांप्रतमनुभूयमानः । निष्कृष्टेति । परिदृश्यमानैतच्छरीरादि पृथक्कृत्येत्यर्थः । तत्त्वं च तस्य भवता मदीयेत्याभ्यामाविष्कृतम् । अर्थेन मधुरिमोद्गारलक्षणरूपेण तथाभूतेन स्वतःसंभविना । नाम्न इत्यस्य तादात्म्याध्यवसायेत्यत्रान्वयः । अनेकजन्मस्ववृत्तान्तप्रत्यक्षीकरणे कारणभूतो यो योगाभ्यासजन्यसिद्धिविशेष इत्यर्थः । अर्थापत्तेर्मानान्तरत्वाभावादाह – वाच्येति । तदिति । 'तैदप्राप्ति महादुःखविलीनाशेष
१. श्लोकद्वयं विष्णुपुराणे पञ्चमांशे त्रयोदशेऽध्याये ( २१।२२) वर्तते. उदाहृतं च काव्यप्रकाशे चतुर्थोल्लासे.
१२ रस०