________________
१०६
काव्यमाला। सिद्धतया वाच्यान्वयबोधवेलायां वाच्यैः सह व्यङ्ग्यान्वयानुपपत्तेः । अन्यथा 'सुदृशो नयनाब्जकोणयोः' इत्यस्यान्वयो न स्यात् । मैवम् । एवमपि
'निर्वासयन्तीं धृतिमङ्गनानां शोभा हरेरेणदृशो धयन्त्याः । चिरापराधस्मृतिमांसलोऽपि रोषः क्षणप्राघुणिको बभूव ॥' इत्यादावपि भावप्रशमध्वनित्वापत्तेः । भावस्य वाच्यत्वेऽपि प्रधानस्य तत्पशमस्य व्यङ्ग्यत्वात् । उभयोरप्यवाच्यत्वमपेक्षितमिति चेत्, प्रागुक्तपद्यद्वये शमत्वोदयत्वाभ्यां शमोदययोर्वाच्यत्वादनुदाहरणत्वापत्तेः । इष्टापत्तिस्तु सहृदयानामनुचितैव । तस्माद्भावप्रशमादिष्वपि प्राधान्येन भावानामेव चमत्कारित्वम् , प्रशमादेस्तूपसर्जनत्वमतो न तस्य वाच्यतादोषः । इदं पुनर्भावध्वनिभ्यो भावशान्त्यादिध्वनीनां चमत्कारवैलक्षण्ये निदानम्यदेकत्र चर्वणायां भावेषु स्थित्यवच्छिन्नामर्षादित्वम्, अमर्षादित्वमेव वा प्रकारः । अन्यत्र तु प्रशमावस्थत्वादिरपीति । रसस्य तु स्थायिमूलकत्वात्प्रशमादेरसंभवः, संभवे वा न चमत्कारः, इति न स विचार्यते । सोऽयं निगदितः सर्वोऽपि रत्यादिलक्षणो व्यङ्ग्यप्रपञ्चः। __ स्फुटे प्रकरणे झगिति प्रतीतेषु विभावानुभावव्यभिचारिषु सहृदयतमेन प्रमात्रा सूक्ष्मेणैव समयेन प्रतीयत इति हेतुहेतुमतोः पौर्वापर्यक्रम
वाच्यैः प्रशमादिभिः । व्यङ्ग्यान्वयेति । आरुण्यव्यङ्ग्यरोषान्वयेत्यर्थः । अन्यथा तदङ्गीकारे । न स्यात् । रोषोदये सुहक्वस्य बाधात् । तथा च रोषप्रशमादिध्वनिलं सुस्थमिति भावः । निर्वासयन्तीं दूरीकुर्वतीम् । मांसलः पुष्टः । क्षणप्राघुणिकोऽतिथिः । शङ्कते-उभयोरपीति । एवमेव उक्तदोषद्वयाभावेऽपि । प्रधानाप्रधानयोरपीत्यर्थः । पद्यद्वये 'उपसि-' 'क्षमाप-' इत्यत्रेत्यर्थः । सहृदयानामिति । अत्र शास्त्रे तेषामेव मुख्यप्रमाणवेनोरीकारादिति भावः । अपि वस्थितिसमुच्चायकः । नन्वेवं वैलक्षण्यानापत्त्या भेदेनोक्त्यसंगत्यापत्तिरत आह-इदं पुनरिति । यदेकत्र शुद्धभावध्वनौ । विशेषणस्याव्यावर्तकलाद्विशेष्यमात्रकृतचमत्काराच्चाह-अमर्षादित्वमेव वेति । अन्यत्र भावशान्त्या ध्वनौ । इतिर्निदानसमाप्तौ । ननु भावशान्त्यादिवद्रसशान्त्यादिः कुतो नोदाहृतोऽत आह-रसस्येति । असंभव इति । तत्त्वे स्थायिखानुपपत्तेरिति भावः । नन्वभिव्यक्तिनाशादिरेव प्रशमादिरत आह-संभवे वेति । रत्यादिलक्षणो