________________
९६
काव्यमाला |
तैवासौ न विविक्ततया प्रतीयते । नहि विधातुरपराध इव भगवतो रामस्यापराधोऽस्ति येन कवेरिव वीराणामप्यमर्षोऽभिव्यज्येत । स्वभावो हि महोन्नतक्रियानिष्पादनं वीराणाम् । अत्राप्रस्तुतचन्द्रवृत्तान्तेन प्रस्तुतराजकुमारादिवृत्तान्तस्य ध्वननान्नास्त्यसूयाध्वनित्वमिति तु न वाच्यम् । एकध्वनेर्ध्वन्यन्तराविरोधित्वात् । अन्यथा महावाक्यध्वनेरवान्तरवाक्यध्वनिभिः, तेषां च पदध्वनिभिः सह सामानाधिकरण्यं कुत्रापि न स्यात् । वियोगशोकभयजुगुप्सादीनामतिशयाग्रहावेशादेवोत्पन्नो व्या
धिविशेषोऽपस्मारः ॥
व्याधित्वेनास्य कथनेऽपि विशेषाकारेण पुनः कथनं बीभत्सभयानक - योरस्यैव व्याधेरङ्गत्वं नान्यस्येति स्फोरणाय । विप्रलम्भे तु व्याध्यन्तरस्यापि च ।
उदाहरणम्
'हरिमागतमाकर्ण्य मथुरामन्तकान्तकम् । कम्पमानः श्वसन्कंसो निपपात महीतले ।' अत्र भयं विभावः । कम्पनिःश्वासपतनादयोऽनुभावाः । अमर्षादिजन्यवाक्पारुष्यादिकारणीभूता चित्तवृत्तिश्चपलता ||
यदाहु:
‘अमर्षप्रातिकूल्येर्ष्यारागद्वेषाश्च मत्सरः । इति यत्र विभावाः स्युरनुभावस्तु भर्त्सनम् ॥ वाक्पारुष्यं प्रहारश्च ताडनं वधबन्धने । तच्चापलमनालोच्य कार्यकारित्वमिष्यते ॥' इति ।
मेदेन नेत्यर्थः । अत इदं नोदाहृतमिति भावः । ननु पूर्वोदाहरणेऽपि शबलितलमत आह-नहीति । ननु रामस्य कुतो नापराधोऽत आह-स्वभावो हीति । अप्रतुतप्रशंसेवात्रेति मतं निराचष्टे – अत्राप्रेति । तेषां च अवान्तरवाक्यध्वनीनां च । अस्य अपस्मारस्य । विशेषेति । अपस्मारत्वेनेत्यर्थः । बीभत्सेत्याद्युक्तिस्वारस्यमाह — विप्रेति । अस्यापि च अपस्मारस्यापि । अङ्गलमित्यस्यानुषङ्गः । कम्पमानः श्वसन्निति । श्वासजन्यकम्पवानित्यर्थः । च मत्सर इति । मत्सर बेत्यर्थः । अहितेति ।