________________
रसगजाधरः।
ह्यालस्ये श्रमस्य पोषकताया अवार्यत्वात् । अतितृप्त्यादिजनिते त्वालस्ये श्रमाद्विविक्तविषयत्वं बोध्यम् ।
परोत्कर्षदर्शनादिजन्यः परनिन्दादिकारणीभूतश्चित्तवृत्तिविशेषोऽसूया ॥... ... इमामेवासहनादिशब्दैर्व्यवहरन्ति । - यथा.... 'कुत्र शैवं धनुरिदं क्व चायं प्राकृतः शिशुः ।
__ भङ्गस्तु सर्वसंहा कालेनैव विनिर्मितः ॥' एषा भनहरकार्मुकस्य भगवतो रामस्य पराक्रममसहमानानां तत्रत्यानां राज्ञामुक्तिः । अत्र च श्रीमद्दाशरथिबलस्य सर्वोत्कृष्टताया दर्शनं विभावः । प्राकृतशिशुपदगम्या निन्दानुभावः । 'तृष्णालोलविलोचने कलयति प्राची चकोरव्रजे..
मौनं मुञ्चति किं च कैरवकुले कामे धनुर्धन्वति । माने मानवतीजनस्य सपदि प्रस्थातुकामेऽधुना
धातः किं तु विधौ विधातुमुचितो धाराधराडम्बरः ॥' अत्रापि यद्यपि तदीयोच्छृङ्खलतादिदर्शनजन्या अनुचितकारित्वरूपनिन्दाप्रकाशानुभाविता कविगता विधात्रालम्बनासूया व्यज्यत इति शक्यते वक्तुम् , तथापि कार्यकारणयोस्तुल्यत्वादभिव्यक्तेनामर्षेण शबलि
व्यङ्ग्येत्यादिः । परिपोषक इत्यनेन श्रमध्वनित्वं निरस्तम् । ननु तस्य तत्त्वे प्रकृते गौरवमत आह-श्रमेति । नन्वेवं सर्वत्र तत्सत्त्वेन विभावमेदोक्तिरयुक्तात आह-अतीति । प्राकृत इति । क्षत्रियोद्भव इत्यर्थः । तत्रत्यानां सीतापरिणयनाथ जनकगृहे समागतानां सदस्युपविष्टानाम् । शिशुपदेति । एतदुभयपदेत्यर्थः । तृष्णालोलेत्युदाहरणदाने बीजं कथयितुमाह-तृष्णेति। कलयतीत्यादि सतिसप्तम्यन्तम् । कलयति चन्द्रिकापानाधू खीकुर्वति । चकोरबजे तत्समूहे । कुलं समूहः । धुन्वति टंकारयति । विधौ चन्द्रे । धाराधरेति । मेघाच्छादनमित्यर्थः । तदीयेति । धात्रीयेत्यर्थः । प्रकाशेस. नेन तस्या वाच्यत्वं सूचितम् । वक्तुमिति । तथा चेदमप्यस्या उदाहरणमिति भावः । कार्यकारणयोस्तुल्यत्वादिति । असूयाकार्यकारणयोरिवामर्षकार्यकारणयोरपि विद्यमाननादित्यर्थः । असौ असूया प्रतीयत इत्यत्रान्वयः । एवव्यवच्छेद्यमाह--नेति ।