________________
|| शिष्यों प्रन्वम् । पाठ्यते शिष्यं अन्य इति वा । सर्वत्र चोक्ते कारके प्रथमा अभिधानं च प्रायेणेत्यादि कृत्तद्धितसमासैः । | कर्तुः किम् । माषेष्वश्वं बध्नाति । चीति किम् । पयसा ओदनं भुङ्क्ते ॥वा कर्मणामणिकर्ता णौ ॥२।२।४॥ | कर्म । पाचयति चैत्रं चैत्रेण वा । अत्राविवक्षितकर्माणो ग्राह्या उत्तरत्र नित्यग्रहणात् । व्यापारमात्रविवक्षायामविवक्षितकर्माणो भवन्ति । गत्यर्थादीनां परखान्नित्य एव विधिः ॥ गतिबोधाहारार्थशब्दकर्मनित्याकर्मणामनीखाद्यदिहाशब्दायक्रन्दाम् ॥२।२।५॥ अणिगवस्थायां कर्ता णो कर्म स्यात् । गमयति मैत्रं ग्रामम् । देशान्तरमाप्तरन्यत्र न भवति । त्रियं गमयति मैत्रेण चैत्रः । बोधशब्देन सामान्यविशेषयोर्ग्रहणम् । बोधयति गुरुः शिष्यं धर्मम् । दर्शयति रूपतर्क कार्षापणम् । अन्ये तु बोधविशेषार्थस्य दृशेरेवेच्छन्ति । प्रापयत्युत्पलं चैत्रेण मैत्रः । भोजयति बटुमोदनम् । शब्दः कर्म क्रिया व्याप्यं वा येषां ते शब्दकर्माणः । जल्पयति मैत्रं द्रव्यम् । अध्यापयति बटुं वेदम् । आसयति मैत्रं चैत्रः॥ कालाध्वभावदेशैश्च सर्वेऽपि धातवः सकर्मका एवेत्यन्यकर्मापेक्षया नित्याकर्मका वेदितव्याः । गत्यर्थादीनामिति किम् । पाचयखोदनं चैत्रेण मैत्रः । अणिक्कत्येव । गमयति चैत्रो मैत्रम् , तमपरः प्रयुङ्क्ते, गमयति चैत्रेण मैत्रं जिनदत्तः । नयतेः प्रापणोपसर्जनप्राप्त्यर्थखेन गत्यर्थखात् खाद्यदोराहार्थत्वात् हाशब्दायक्रन्दां च शब्दकर्मकखात् कर्मत्वे प्राप्त प्रतिषेधार्थ वचनम् । नाययति भारं चैत्रेणेत्यादि कर्मसंज्ञा प्रतिषेधात् स्वव्यापाराश्रयं कर्तृत्वमेव । प्रेषणाध्येषणादिपयोजकन्यापारण णिगन्तवाच्येनाणिकर्तुाप्यत्वात् कर्मसंज्ञा सिद्धैव नियमार्थ तु वचनम् । तेनान्यधातुसम्बन्धिनः | कर्तृत्वमेव ॥ भक्षोर्हसायाम् ॥२ । २ । ६॥ स्वार्थिकण्यन्तस्याणिक्का णौ कर्म स्यात् । भक्षयति सस्य बलीवर्दान् || मैत्रः । बनस्पतीनां प्रसवपरोहळ्यादिमत्त्वेन चेतनत्वात् तद्विशेषस्य सस्यस्य माणवियोगस्तद्भक्षणात् वाम्युपघातो नावात्र हिंसा । हिंसायां किम् । भक्षयति पिण्डी शिशुना । आहारार्थत्वात् प्राप्ते नियमाथै वचनम् । तेन भक्षयति राज
द्रव्यं नियुक्तेनेत्यादौ न । वहे प्रवेयः॥२।२।७॥ अणिकर्ता णौ कर्म स्यात् । वाहयति भारं बलीवर्दान् मैत्र:
GURUGRECRUCINEMATOGRAMMU