________________
प्रेम
प्रभा०
९०
प्रत्ययार्थः अत्र तु जीवितं मेयं पुरुषस्तु प्रत्ययार्थ इत्येतदर्थं लुबभावार्थ चेदम् ॥ संख्यायाः संघसूत्रपाठे ॥ ६ ॥ ४|१७१ ॥ अस्मात्स्यन्तादस्य मानमित्यर्थे यथोक्तं प्रत्ययः षष्ठयर्थचेत्सङ्गः सूत्रं पाठो वा । पश्चकः संघः । अष्टकं पा णिनीयं सूत्रम् । अष्टकः पाठः । संघसूत्रपाठ इति किम ! पञ्चतयं पदम् । तयड् बाधनार्थे वचनम् । अभेदरूपापन्ने संघादौ तयायोर्वाधकमिदम् । भेदरूपापन्ने तु तथडेवं । स्याद्वादाश्रयणाचात्र भेदाभेदयोः सम्भवः ॥ नाम्नि ॥ ६ ॥ ४ । १७२ ॥ संख्यार्थात्तदस्य मानमित्यर्थे प्रत्ययः । पश्चकाः शकुनयः । योगविभागकरणात पञ्चकास्त्रिका इति स्वार्थे एव वा प्रत्ययः ॥ विंशत्यादयः ।। ६ । ४ । १७३ || सदस्य मानमित्यर्थे साधवो नाग्नि । द्वौ दश तौ मानमेषां विंशतिः । त्रिंशत् । चत्वारिंशत् । पश्चाशत् । षष्टिः । सप्ततिः । अशीतिः । नवतिः । शतम् । सहस्रम । अयुतम् । नियुतम् । प्रयुतम् । अर्बुदम् । न्यर्बुदम् । बहुवचनाल्लक्ष्यकोटिखर्वनिखर्वादयः पङ्क्तिः । पङ्क्ति छन्दः । यदत्र लक्षणेनानुपपन्नं तत्सर्वं निपातनात् सिद्धम् । लिङ्गसंख्यानियमश्च विंशत्याद्याशतादिति सिद्धः ॥ त्रैशं चात्वारिंशम् ॥ ॥ ६ ॥ ४ । १७४ ॥ त्रिंशचत्वारिंशदित्येताभ्यां तदस्यमानमित्यर्थे ऽण् नाग्नि शानि । चात्वारिंशानि ब्राह्मणानि || पश्चद्दशद्वर्गे वा || ६ |४| १७५ ॥ एतौ तदस्य मानमित्यर्थे वर्गेऽर्थे वा डत्प्रत्ययान्तौ निपात्येते । पञ्चत् । दशत् । पश्चपश्चकः । दशको वर्गः ॥ स्तोमे डट् । ६ । ४ । १७६ || संख्यार्थात्तदस्य मानमिति विषये । विंशः स्तोमः ॥ त मर्हति ॥ ६ ॥ ४ । १७७ ॥ यथाविधि प्रत्ययः । वैषिकः । साहस्रः । भोजनमर्हतीत्यादावनभिधानान्न ॥ दण्डादेर्यः ।। ६ । ४ । १७८ ॥ द्वितीयान्तादर्हति । दण्डचः । मुसल्यः । अर्घ्यः ॥ यज्ञादियः ।। ६ । ४ । १७९ ।। द्वितीयान्तादर्हति । यज्ञियो देशः ॥ पात्रान्तौ ॥। ६ । ४ । १८० ॥ द्वितीयान्तादर्हति । पात्रय' । पात्रियः ॥ दक्षिणाकडङ्गरस्थालीबिलादीययौ । ६ । ४ । १८१ ॥ द्वितीयान्तादईति । दक्षिणीयो दक्षिण्यो गुरुः । कडङ्गरीयो कटझर्यो गौः । कडङ्गरं मापादिकाष्टम् । स्थालीबिलीयाः स्थालीबिल्यास्तण्डुलाः ॥ छेदादेर्नित्यम् ॥ ६ ॥ ४ । १२८ ॥
तदि
पक ०
P