________________
भाविनि ॥७।४।१८॥ णिति तहिते स्वरेवादेः स्वरस्य वृद्धिः। द्विवार्षिकः। अधिकवार्षिक: । अभाविनीति किम् ? । द्वैवार्षिकं धान्यम् । अधीष्टभृतयोः प्रत्ययो न भाविनीति प्रतिषेधो न । गम्यते यत्र भविष्यत्ता न तु प्रत्ययार्थः ॥ प्राणिनि भूते ६।४ । ११२॥ कालार्थवर्षान्ताद् द्विगोरः। द्विवर्षों वत्सः । पाणिनीति किम् ?। द्विवर्षः। द्विवर्षीणः । द्विवार्षीकः सरकः॥ मासाद्वयसि यः ।।६। ४ । ११३ ॥ द्विगोभूते । द्विमास्यःशिशुः । वयसीति किम् ? । द्वैमासिको व्याधिः ॥ईन च ॥६।४।११४ ॥ मासाद्भूते यो वयसि । मासीनो मास्यो दोरकः । अकारो दृद्धिहेतुत्वेन पुंवद्भावाभावार्थः ॥ षण्मासाद्ययणिकण् ॥ ६।४ । ११५॥ कालार्थाद् भूते वयसि। षण्मास्यः । पाण्मास्यः । पाण्मासिकः शिशुः ॥ सोऽस्यब्रह्मचर्यतद्वतोः ॥ ६।४ । ११६ ॥ प्रथमान्तात् का. लार्थात् इकण् । मासिकं ब्रह्मचर्यम् । मासिकस्तद्वान् ॥ प्रयोजनम् ॥६। ४ । ११७ ॥ तदस्येकण् ॥ जैनमहिक देवागमनम् ॥ एकागाराचौरे ॥ ६।४।११८ ॥ तदस्य प्रयोजनमिति विषये इकण् । ऐकागारिकः । चौरे नियमार्थ वचनम् । तेनेह न एकागारं प्रयोजनमस्य भिक्षोः॥ चूदादिभ्योऽण् ॥ ६॥ ४ ॥११९ ॥ सदस्य प्रयोजनमिति विषये । चौडम् । श्राद्धम् ॥ विशाखाषाढान्मन्थदण्हे ॥६।४।१२०॥ तदस्य प्रयोजनमिति वि. पये यथासंख्यमण् । वैशाखोमन्थः । आषाढो दण्डः॥ उत्थापनादेरीयः॥६।४।१२१ ॥ तदस्य प्रयो- ||* जनमिति विषये । उत्थापनीयः । उपस्थापनीयः ॥ विशिरुहिपदिपूरिसमापेरनात् सपूर्वपदात् ।। ६।४। १२२ ॥ तदस्य प्रयोजनमिति विषये ईयः । गृहप्रवेशनीयम् । आरोहणीयम् । गोपपदनीयम् । प्रपापूरणीयम् । अङ्गसमापनीयम् ॥ स्वर्गस्वस्तिवाचनादिभ्यो यलुपौ ॥६।४।१२३ ॥ सदस्य प्रयोजनमित्यय यथासंख्यम् । स्वर्ग्यम् । आयुष्यम् । स्वस्तिवाचनम् । शान्तिवाचनम् । अत्रेकणो लप् ॥ समयात् प्राप्तः॥६।४।१२४ ॥ प्रथमान्तात्षष्ठ्यर्थे इकण चेत् समयः सामयिकं कार्य ॥ ऋत्वादिभ्योऽण् ॥ ६ । ४ । १२५ ॥ प्रथमान्तेभ्यः सोऽ.
RECORRUKALAKAMANANK