________________
HERSISTEREOS
लं यमेव । नमते दण्डः स्वयमेव । कृ गृ दुहब्रू अन्य ग्रन्थ नम् इति किरादयः । बहुवचनं शिष्टपयोगानुसरणार्थम् । णि,
कारयते कटः स्वयमेव । उत्पुच्छयते गौः स्वयमेव । उदपुपुच्छत । प्रस्नुते गौः स्वयमेव । चोरयते गौः स्वयमेव । उच्छूयते दण्डः स्वयमेव । विकुनते सैन्धवाः स्वयमेव । अन्ये तु णिस्नुश्रयात्मनेपदाकर्मकेम्यो अिटोऽपि प्रतिषेधमिच्छन्ति । स्तुनग्रोरन्तर्भूतण्यर्थत्वेन सकर्मकत्वाद्गवादेः कर्मकत्वम् । ण्यर्थाभावे तु न कर्म
कर्तता । करणादिक्रियारूपस्य प्रकृत्यर्थस्य प्राधान्यात् णिसन्नन्तानां कर्मस्थक्रियत्वम्, ब्रूते कथेत्यत्र वचनं शब्दप्रकाशन 8 फलत्वादुपाध्यायेनोक्तः करोतीतिवत् प्रेरणार्थत्वाद् षा कर्मस्थक्रियारूपम् । भूषाक्रियाणां च शोभाख्यं फलं कर्मणि
दृश्यते इति कर्मस्थक्रियात्वम् ।। करणक्रियया क्वचित् ॥३।४। ८४ ॥ एकवातौ पूर्वदृष्ट्या एकाकर्मक्रिये कर्तरि विक्यात्मनेपदानि । परिवारयन्ते कण्टका वृक्ष स्वयमेव । काचिन्न । साध्वसिच्छनत्ति । कुषिरजेाप्ये वा परस्मै ॥३।४।७४॥ कर्तरि शिद्विषये तत्सभियोगे श्य: । क्यात्मनेपदापवादौ । कुष्यति कुष्यते वा पादः स्वयमेव ।
रज्यति रज्यते वा वस्त्रं स्वयमेव । व्याप्ये कर्तरीति किम् ? । कृष्णाति पादं रोगः । शितीत्येव । अकोपि । परस्मैपद3 संनियोगविज्ञानादिह न । कतीह कुष्णानाः पादाः। क्यात्परस्मैपदविकल्पविधानेनैव सिद्धे श्यविधानं कुष्यन्ती रज्य
मन्तीत्यत्र नित्यमन्तादेशार्थम् ॥ ॥इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहमूरिपपरम्परापतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशा
खीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां वृहद्धेमप्रभायां कर्मकर्तृप्रक्रिया ।।