________________
सनः॥३.३।७०॥ जानातेः कार्यात्मनेपदम् । धर्म जिज्ञासते । अननोरिति किम् ? । धर्ममनुजिज्ञासति । कथमौषधस्यानुजिज्ञासते । अकर्मकात् माग्वत् इत्यनेन भविष्यति ॥ ध्रुवोऽनारपतेः ॥३।३।७१ ॥ सन्नन्ताव
कर्तर्यात्मनेपदम् । शुश्रूषते गुरून् । अनामते रिति किम् ? । आशुश्रूषति । प्रतिशुश्रूषति । चैत्रं प्रति शुश्रूषत इत्यत्र 13 तु न प्रतिषेधः, धातोः प्रतिना सम्बन्धाभावात् ॥ स्मृदृशः ॥ ३ । ३ । ७२ ॥ सनः फर्यात्मनेपदम् । सुस्मूर्षते
पूर्ववृत्तम् । दिक्षते देवम् ॥शको जिज्ञासायाम् ॥३।३ । ७३ ॥ सन्नन्ताकर्तर्यात्मनेपदम् । शिक्षते विद्याः। ज्ञातुं शक्नुयामितीच्छतीत्यर्थः । जिज्ञासायामिति किम् ? । शक्तुमिच्छति शिक्षति । शिक्षि विद्योपादान इत्यनेन सिद्धे आमनुपयोगार्थ वचनम् । तेन शिक्षाश्चक्रे इति सिद्धम् । केचित्तु शके: सन्नन्तस्यात्मनेपदमनिच्छन्तः शिक्षते रेव जिज्ञासायामात्मनेपदमन्यत्र च परस्मैपदमिच्छन्ति “॥ प्राग्वत् ।। ३।३।७४ ।।" शिशयिषते ॥" आमः कृगः ॥३।३।७५॥"ईहाश्चक्रे ॥ गन्धनावक्षेपसेवासाहसप्रतियत्नमकथनोपयोगे ।। ३।३। ७६ ॥ करोतेः कार्यात्मनेपदम । गन्धनं द्रोहाभिप्रायेण परदोषोद्घाटनम् । प्रोत्साहनादिकमन्ये । उत्कुरुले । उदाकुरुते माम् । अध्याकुरुते जिघांमुः । अपकरें कथयतीत्यर्थः। अवक्षेपण कुत्सनं भर्त्सनं वा । दुर्वृतानवकुरुते । कुत्सयतीत्यर्थः । श्येनोन वत्तिकामपकुरुते । भयितीत्यर्थः । सेवाऽनुवृतिः । महामात्रानुपकुरुते । सेवत इत्यर्थः । साहसमविमृश्य प्रवृत्तिः । परद्वारान प्रकुरुते । विनिपातमविभाव्य तान् अभिगच्छतीत्यर्थः । प्रतियत्नः सतो गुणान्तराधानम् । एधोदकस्योपस्कुरुते । तत्र गुणान्तरमादधातीत्यर्थः । प्रकयनं कथनारम्भः प्रकर्षेण कथनं वा । जनवादान् प्रकुरुते । उपयोगो धर्मा
विनियोगः शतं प्रकुरुते । धर्मादी विनियुः इत्यथैः ॥ अधे प्रसहने ।।३।३ । ७७ ॥ प्रसहनं पराभिभव: रेणापराजयो वा । तं हाधिचक्रे । तमभिभूतवान् । तेन वा न पराजितः । अथवा प्रसहन प्रकर्षण क्षमा । सा च विधा स्याशक्तस्य च । भवादृशाश्चेदधिकुर्वते परान् । समर्था अपि यद्यपेक्षन्ते तदा निराश्रया हन्त हता मना
FISHERBAREICAB5
RECENTERESER५६२