________________
॥ अथ नामधातुप्रक्रिया ॥ बितीयायाः काम्यः॥३४२ ॥नाम्न इच्छायामर्थे वा । पुत्रमिच्छति पुत्रकाम्यति । इदकाम्यतियशस्काम्यति। किंकाम्यति। उच्चैःकाम्यति । स्व:काम्यति । काम्येनैव कर्मण उक्तत्वात्कर्मणि नास्य प्रयोगः। द्वितीयाया इति किम्?! इष्टः पुत्रः।नातुः पुत्रमिच्छतीत्यादौ तु न,सापेक्षत्वात् । अन्यमपेक्षमाणस्यान्येन सहैकार्थीभावाभावात्।समासे तु भ्रातुष्पुत्रकाम्यतीत्यादि भवत्येव, समर्थत्वात् । अघमिच्छति दुःखमिच्छतीत्यादावपि परस्येत्यपेक्षितत्वात्सापेक्षत्वम् । कथं तर्हि पुत्रकाम्यतीत्यादौ पुत्रस्यात्मीयता गम्यते ? । अन्यस्याश्रुतेः, इच्छायाश्चात्मविषयत्वात् ।। अमाव्ययात्क्यन् च ॥३॥ ४॥ २३ ॥ द्वितीयान्तानाम्न इच्छायामर्थे वा काम्यः ।। क्यानि ॥४।३ । ११२ ॥ अवर्णान्तस्य ईः । पुत्रीय ति । पुत्रकाम्यति । मालीयति २ । अमाव्ययादिति किम् ? । इदमिच्छति । किमिच्छति । स्वरिच्छति । उच्चैरिच्छति ॥ नं क्ये ॥१।१।२२।। क्यनि क्यङि क्यपि च नाम पदम् । राजीयति । अहर्यति । गव्यति । नान्यति । गन्यिता । सनिपातपरिभाषया यस्य लोपोन । वाच्यति ॥क्यो वा ॥४।३।८१ ॥ धातोर्व्यअनात्परस्याशिति लुक । क्यन्क्यङोः सामान्येन निर्देशः । क्यक्षस्तु प्राप्तिरेव न । वाचिता । वाच्यिता। समिध्यति । समिधिता। समिध्यता । केचित्तु यकोऽपि लुग्विकल्पमिच्छन्ति । तन्मतसंग्रहार्थ ककारोपलक्षितो य क्य् इति व्याख्येयम्। अ. न्यस्त्वाह,शिष्य इवाचरिता । शिपिता शिष्यितेति । यद्यस्ति प्रयोगस्तदा वक्यपोऽपि ग्रहणम् । क्य इति व्यअनापश्री अतो लुकि कृते लुगर्था । अन्यथाऽतो लुगपवाद: क्यलग विज्ञायेत । अदस्यति । त्वयति । मयति । प्रकृत्यर्थस्यैकत्वाभावे तु युष्मयति । अस्मयति । भ्वादेरितिदीर्घः । गीर्यति । पूर्यति । भ्वादित्वाभावान दीर्घः । दिवमिच्छति ख्यिति । गार्गीयति । ऋतोरी। कर्मयति । पित्रीयति । दीर्घः कवीयति ॥आधाराचोपमानादाचारे ॥३४॥२४॥
5453
SSUR
2४