________________
KIPEG453
माने ८१ । शूर्पयति । शुल्वण सर्जने च ८२ । चान्माने । डबु डिबुण क्षेपे ८३ । विडम्बयति । केचित्तु ददिभुद & भूनपीहाधीयते । सम्वण सम्बन्धे ८४ । पोपदेशोऽयमित्यन्ये । दुमिलास्तु तालव्यादिमिममिच्छन्ति । साम्बेत्यपरे ।
कुबुण आच्छादने ८५। कुम्बयति । लबु तुबुण अदने ८६ । तुपुणइत्यपरे । पुर्वण् निकेतने ८७। पूर्वयति । यमण् परिवेषणे ८८ । यामयत्यतिथीन् चन्द्रमसं वा । परिवेषणादन्यत्र तु ।। यमोऽपरिवेषणे णिचि च ॥ ४ । २।२९॥ अणिचि च णौ इस्वो विणम्परे तु वा दोघः । यमयति । यमः परिवेषण इत्यन्ये । णाविति सिद्धे णिचि चेति चचनादन्येषां णिचि न । स्यामयते । निशामयति । व्ययण क्षये ८९ । व्याययति । यत्रण संकोचने ९० । कुद्रुण अनृतभाषणे ९१ । कुन्द्रयति । गादिरयमित्यन्ये । श्वभ्रण गतौ ९२ । तिलग् स्नेहने ९३ । तेलयति । जलण अपवारणे ९४ । क्षलण शौचे ९५ । क्षालयति । पुलण समुच्छ्राये ९६ । बिल भेदे ९७। भिलेति कौशिकः । तलग् प्रतिष्ठायाम् ९८ । तुलण उन्माने ९९ । तोतयति । तुलयति तुलना इत्यादि तु तुलाशब्दाद् णिज बहुलमिति णिचि । दुलण उत्क्षेपे १०० । बुलण् निमज्जने १०१ । मूलग् रोहणे १०२ । कल किल पिलण क्षेपे १०३ । पलण रक्षणे १०४ । पालयति । इलण् प्रेरणे १०५ । चलण् भृतौ १०६ । सान्त्वण सामप्रयोगे १०७ । केचित्तु पोपदेशमिममाहुः । साम सान्त्वप्रयोगे इति चन्द्रः। धूशण कान्तीकरणे १०८ । अधुशन् । धूषण्इत्यन्ये । धूसग् इत्येके । श्लिषण श्लेषणे १०९ । लूषण हिंसायाम् ११० । रुषण रोषे १११ । प्युषण उत्सर्गे ११२ । पसुण नाशने ११३ । पंसयति । जमण रक्षणे ११४ । पुंसण अभिमर्दने ११५ । ब्रुस पिस जस बर्हण हिंसायाम् ११६ । स्निहणू स्नेहने ११७ । म्रक्षण म्लेच्छने ११८ । भक्षण अदने ११९ पक्षण परिग्रहे १२० । लक्षीण दर्शनाङ्कयोः १२१ । ईदित्वात्फलपति कर्तर्यात्मनेपदम् । अन्यत्र परस्मैपदम् । लक्षयते । लक्षयति । इतोऽर्थविशेषे आलक्षिणः । अतः परं पागुक्ता अपि मणिपर्यन्ता अर्थविशेषे ये चुरादयस्ते प्रस्तूयन्ते । ज्ञाण मारणादिनियोजनेषु १२२ ॥ मारणतोषणनिशाने
FERRRRRRRRRRRA