SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ SEX वा. State OSHIRISH रूकारनिर्देशाद्यब्लुपि न । क्रम पादविक्षेपे । २०६॥ भ्रासभ्लासभ्रमकमालमत्रसिधुटिलषियसिसंयसेवा ॥३।४।७३ ॥ कर्तरि विहिते शिति श्यः । संयसेग्रहणमुपसर्गान्तरनिवृत्त्यर्थम् । तेनायस्यतीत्यत्र नित्यं श्यः ॥ क्रमो दीर्घः परस्मै ॥ ४।२।१०९ ॥ क्रमः परस्मैपदनिमित्तेऽत्यादौ शिति दोघः। क्राम्यति । पक्षे कामति । परस्म इति किम् ? । आक्रमते सूर्यः ।। क्रमः ॥४।४।५४ ॥ स्ताद्यशिवोऽनात्मनेपद आदिरिट् । अक्रमीत् । चक्राम । य{ उपरमे । २०७॥ गमिषद्यमश्छः ॥४।२।१०६॥ शिति । यच्छति । अयंसीत । स्यम् शब्दे । २०८ । स्येमतुः । सस्यमतुः। णमं प्रवत्वे । २०९ । प्रणमनि । अनंसीत् । षम-ष्टम वैक्लव्ये । २१० । अम शब्दभक्त्योः । २११ । अम-द्रम-हम्म-मिमृगम्लु गतौ । २१२ । गच्छति । तृदित्वादङि । अगमत् । जगाम ।। गमहनजनखनघसः स्वरेऽनङि क्ङिति लुक् ॥ ४ । २॥४४॥ उपान्त्यस्य प्रत्यये । जग्मतुः । नगमिथ । जगन्थ । गम्यात् । गन्ता ॥ गमो नात्मने ॥४।४। ५१ ॥ स्तायशितः सादेरादिरिट् । गमीत्यादेशस्थानादेशस्य च ग्रहणमविशेषात् । आदेशस्य नेच्छन्त्येके । गमिष्यति । अगमिष्यत् । अनात्मने इति किम् ? । गस्यते । इति पवर्गीयान्ताः । हय हर्य क्लान्तौ च । २१३ । यान्तत्वान्न वृद्धिः । अहयीत् । मव्य बन्धने । २१४ । सूर्य ईक्ष्य ईय ईर्ष्यायाम । २१५। शुच्यै चुन्यै अभिषवे । २१६ । द्रवेणाद्रवाणां परिवासनमभिषवः । स्नानमित्यन्ये । शुशुच्य । त्सर छ ममतौ । २१७ । क्मर हुर्छने । २१८ । अभ्र वभ्र मभ्र गतौ । २१९ । चर भक्षणे च । २२० । धो गतिचातुर्ये । २२१ । धोरति । खोक्र प्रतिवाते । २२२ । दल-बिफला विशरणे । २२३ । अकाली । फेलतुः ।मीलश्मीलस्मीलक्ष्मीलनिमेषणे । २२४ । निमेषणं सङ्कोचः । पील प्रतिष्टम्भे । २२५ । प्रतिष्टम्भो रोधनम् । णील वर्णे । २२६ । वर्णेपिलक्षितायां क्रियायामित्यर्थः । शील समाधौ । २२७ । कील बन्धे । २२८ । कूल आवरणे । २२९ । शूल रुजायाम् । २३० । तूल निष्कर्षे । २३१ । निष्कर्षोऽन्तर्गतस्य वहिनिस्सारणम् । पूल सचाते । २३२ । मूल प्रतिष्ठायाम् । २३३ । WARRAK
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy