________________
सूरीशो वनवासिगच्छमतनोच्चारित्रचूडामणिः ॥ ५ ॥
यत्रानेकन यप्रचारमहितागाधागमाब्ध्युल्लस - बुद्धिस्स्वच्छवटाख्यगच्छ्मलधुं श्रोसर्वदेवाभिधः । सूरिः सर्वगुणाकरोऽमितयशा लब्धप्रतापोदयो, व्यातेने चरणप्रचारविमलच्छायं शमोल्लासकम् ६ यत्रोद्यतमनर्गलं सुविदधत् सद्धर्मदीक्षागुरुः, श्रीवीरागम मार्गचारिचरणोऽनेकान्ततत्त्वप्रधीः । सूरिभव्यसरोज भानुरमलं गच्छं तपाख्यं जग-च्चन्द्राख्यश्चरणप्रचारमहिमावाप्तप्रतिष्ठं व्यधात् ७ गच्छे तत्र परम्परागत सदाचारैकबद्धादरे, श्रीहीरेण गते प्रसिद्धिमतुलां लोकेऽनघां सूरिणा । सेनेनाप्त गुणाकरेण गमिते देवेन चाधिश्रियं, सिंहाचार्यविधिप्रचारमहिते सद्बोधरत्नाकरे ॥८॥ ॥ सद्धम्र्म्माम्बुधिवृद्धिमंत्र परमां भव्येषु सन्तन्वतः, कीर्ति दिक्षु वितन्वत्तोऽमितगुणावासस्य विद्याम्बुधेः श्रीयुक्तस्य बुधस्य वृद्धिविजयस्यैकान्तभक्त्या गुरो-र्नेम्याख्येन कृतेयमस्तु सुधियामानन्ददा सुरिणा
वर्षे मिते मुनिरसाङ्क निशाधिनाथैः, मासे शुचौ सितदले भुजगेन्द्रतिथ्याम् । पूर्णास्तु राजनगरे प्रथिताऽधिकल्पं, हेमप्रभाकृतिरियं भुवि नेमिसूरेः ॥ १० ॥