________________
तत्प्रकाशत इति ॥ वापगुरोणमि ॥ ४ । २ । ५ ।। सन्ध्यक्षरस्यात् । अपगारमपगारम् । अपगोरमपगोरम् ॥ ग्रेप्रथमे ॥ ५ । ४ । ४९ ।। उपपदे परकालेन तुल्यकर्तृके प्राक्कालेऽर्थं वर्त्तमानाद् धातोः सम्बन्धे रूणम् वा ॥ अनाभीक्ष्ण्यार्थं वचनम् । पूर्व भोजं व्रजति । पूर्व शुक्तत्वा । अग्रे भोजम् । अग्रे भुक्त्वा । प्रथमं भोजम् । प्रथमं भुक्त्वा । वत्र्त्तमानादयोऽपि । पूर्व भुज्यते ततो व्रजति । पूर्वादयश्चात्र व्यापारान्तरपेक्षे पाककाल्पे, व्रज्य पेक्षेतु वारुणमाविति नोक्तार्थता । अन्यभोक्तृभुजिक्रियाभ्यः स्वक्रियान्तरेभ्यो वा पूर्वे भोजनं कृत्वा व्रजतीत्यर्थः । पूर्वप्रथम साहचर्यादग्रेशब्दः कालवाची ॥ अन्यथैवं कथमित्थमः कृगोऽनर्थकात् ॥ ५ । ४ । ५० ॥ तुल्यकर्तृकेऽर्थे वर्त्तमानाडातोः रूण वा । अन्यथाकारं भुङ्क्ते । एवंकारम् । कथंकारम् । इत्थंकारम् । पक्षे तवैव । अनर्थकादिति किम् ? | अन्यथा कृत्वा शिरो भुङ्क्ते ॥ यथातथादीष्यत्तरे ॥ ५ । ४ । ५१ ॥ तुल्यकर्तृकेऽर्थे वर्त्तमानादनर्थकात् करोतेर्धातोः सम्बन्धे रूणम् वा । कथं त्वं भोक्ष्यस इति पृष्टोऽसूयया तं प्रत्याह-यथाकारमहं भोक्ष्ये तथाकारमह भोक्ष्ये किं तवानेन । ईष्योत्तर इति किम् ? | यथाकृत्वाऽहं भोक्ष्ये तथा द्रक्ष्यसि ॥ शापे व्याप्यात् ॥ गम्ये तुल्यकर्तृकार्थात् करोतेः ख्णम् वा ।। चौरंकारमाक्रोशति । करोतिरिहोच्चारणे । चौरशब्दमुच्चार्येत्यर्थः ॥ शाप इति किम् ?। चौरं कृत्वा हेतुभिः कथयति ॥ स्वाद्वर्थाददीर्घात् ॥ ५ । ४ । ५३ ॥ व्याप्यात् परात्तुल्यकर्तृकार्थात् करोतेर्धातोः सम्बन्धे रूण वा || स्वादुंकारं भुङ्क्ते । सम्पन्नंकारम् । लवणंकारम् । सम्पन्न लवणशब्दौ स्वादुपर्यायौ । मिष्टङ्कारम् । पक्षे स्वादु कृत्वा भुङ्क्ते । अदीर्घादिति किम् ? | स्वाद्वीं कृत्वा यवागूं भुङ्क्ते ॥ विदुम्भ्यः का
णम् ॥। ५ । ४ । ५४ ॥ काल्स्र्न्यविशिष्टायाप्यात् परेभ्यस्तुल्यकर्तृके प्राक्कालेऽर्थे वर्त्तमानेभ्यो धातोः सम्बन्धे वा । अतिथिवेदं भोजयति । यं यमतिथिं जानाति लभते विचारयति वा तं सर्वं भोजयतीत्यर्थः । अत्र त्रयाणामपि