________________
हेमप्रभा |
हा त्ययान्ता निपात्यन्ते । संपूर्वाच्चिनोतेडिंत समो मकारस्यानुस्वारपूर्वः शकारश्च । संश्चत् अध्वर्युः कुहकश्च । अनुस्वारं नेच्छन्त्येके । सश्चत कुहकः । विपूर्वादन्तेर्डिद्वेश्च गुणः। विहन्ति । गर्भभिति बेहत् गर्भधातिनी अपजाः
उणादयः स्त्री अनवांश्च । संपूर्वादीक्षतेः साक्षाभावश्च । साक्षात् समक्षमित्यर्थः । आदिग्रहणादेहद्रियत्पुरीतदादयोऽपि ॥ 1१४४|
प्रक०॥ पटच्छपदादयोऽनुकरणाः ॥ ८८३ ॥ पटदित्यादयोऽनुकरणशब्दाः कत्मत्ययान्ता निपात्यन्ते । पट गतौ । पटव । छुपत् संस्पर्श, उकारस्याकारश्च । छपत् । पत्ल गतौ। पतत् । तृशू हिंसायाम् । शरत् । शल गतौ ॥ शलत् । खट काक्षे । खटन् । दहेः प च । दपत् । दिपेः डिपत् । खनतेरश्च । खरत् । खादतेः खादत् । सर्व
एते कस्यचिबिशेषस्य अतिप्रत्यासत्याऽनुकरणशब्दाः। अनुकरणमपि हि साध्वेव कर्तव्यम् न यकिंचित् यथाMनक्षरमिति शिष्टाः स्मरन्ति ॥ दुहिवृहिमहिपृषिभ्यः कतः ॥८८४ । एभ्यः किदवः प्रत्ययो भवति । दहीच
जिघांसायाम् । दुहन् ग्रीष्मः । वृह वृद्धौ । बृहन् प्रवृद्धः बृहनि छन्दः । मह पूजायाम् । महान् पूजितः विस्तीर्णश्च । ६। महान्तौ । महान्नः। महती । पृष् सेचने । पृषन् तन्त्र जलबिन्दुः चित्रवर्ण जातिः दध्युपसिक्तमाज्यं च । पृषती | मृगी। स्थूलपूषनीमालभेत । ऋकारो ब्यायः ॥ गमेडिंडे च ॥ ८८५ ॥ गम्लं गतावित्यस्मात् कतः प्रत्ययो डिद्भवति द्वे चास्य रूपे भवतः । जगत् स्थावरजङ्गमो लोकः । जगती पृथ्वी ॥ भातेर्डवतुः ॥ ८८६ ॥ भांक दीप्तावित्यस्मात् डिदवतुः प्रत्ययो भवति । भवान् । भवन्तौ । भवन्तः । उकारो दीर्घत्वादिकार्यार्थः ॥ हसरुहि. युषितडिभ्य इत् ॥ ८८७ ॥ एभ्य इत् प्रत्ययो भवति । हग् हरणे । हरित हरितो वर्णः ककुन् वायुः मृगजातिः अश्वः सूर्यश्च । सं गतौ । सरित् नदी । रुई जन्मनि । रोहित वीरुत्पकारः मत्स्यः सूर्यः अग्निः मृगः वर्णश्च । युषः सौत्रः। योषति गच्छति पुरुषमिति योषित् स्त्री तडणू आघाते । तडित् विद्युत् ॥ उदका