________________
हेममभा
। १२२ ।
दयो भवन्ति ॥ पिचिमञ्जिकण्डिगण्डिब लिबधिवञ्चिभ्य ऊलः ॥ ४८८ ॥ पिञ्जकः हस्तिबन्धनपाशः राशिः कुलपविव । मञ्जिः सौत्रः । मंजूला मृदुभाषिणी । कुण्डलः अशिष्टो जनः । गण्डूलः कृमिजातिः । बलूलः ऋषिः मेघः मास । बधूलः हस्ती घातकः रसायनं तन्त्रकारथ । बंचूलः हस्ती मत्स्यमारपक्षी च ॥ तमेर्वोऽन्तो दीर्घस्तु वा ॥ ४८९ ।। तमृच काङ्क्षायामित्यस्मादूलः प्रत्ययो वोऽन्तश्च भवन्ति दीर्घस्तु वा । ताम्बूलं तम्बूलम् उभयं पूंगपत्रचूर्णसंयोगः ॥ कुलिपुलिकुशिभ्यः कित् ॥ ४९० ॥ एभ्यः कलः प्रत्ययः स च किद् भवति । कुलूल: कृमिजातिः । पुलूलः दृक्षविशेषः कुशुळः कोष्ठः || दुकूलकुकूल बब्बूलला गुलशार्दूलादयः ॥ ४९१ ॥ दुकूलादयः शब्दा ऊलप्रत्ययान्ता निपात्यन्ते । दुक्वोः कोऽन्तश्च । दुकूलं क्षौमं वासः । कुकूलं कारीषोऽग्निः । बधेवोऽन्तो वr | बबूलः वृक्षविशेषः । लङ्गेर्दीर्घश्च । लाङ्गूलं बालधिः । शृणातेर्दोऽन्तो वृद्धिथ । शार्दूलः व्याघ्रः । आदिग्रहणात् मालकंचूलादयो भवन्ति ॥ महेरेलः ॥ ४९२ ॥ मह पूजायामित्यस्मादेलः प्रत्ययो भवति । महेला स्त्री ॥ कटिपटिकण्डिगण्डशकिक पिचहिभ्य ओल: ।। ४९३ ।। कटोलः कटविशेषः वादित्रविशेषश्च । कटोला ओषधिः । पटोला वल्लीविशेषः । कण्डोलः विदलभाजन विशेषः । गण्डोल: कृमिविशेषः । शकोलः शक्तः । कपिः सौत्रः । कपोल: गण्डः । चहोलः उपद्रवः ॥ ग्रह्माद्भ्यः कित् ।। ४९४ ॥ ग्रहेराकारान्तेभ्यश्च धातुभ्यः किदोलः प्रत्ययो भवति । ग्र
उपादाने | गृहोल: बालिशः । कायतेः, कोलः बदरी वराहश्च । गायतेः, गोल: वृत्ताकृतिः । गोला गोदावरी बालरमणकाष्ठं च । पातेः, पोला तालाख्यं कपटबन्धनं परिखा च । ळातेः, लोलः चपलः । ददातैर्दयते येतेर्वा दोला प्रेङ्कणम् || पिन्छोलकल्लोलकक्कोलमक्कोलादयः ॥ ४९५ ॥ पिछोलादयः शब्दा ओलप्रत्ययान्ता निपात्यन्ते । पीडे: पिन्च । पिञ्छोलः वादित्रविशेषः । कलेलोंऽन्तश्च । कल्लोलः ऊर्मिः । कचिमच्यो :कादिः । कक्कोली लता
उणादयः प्रक०
| १२२ ।