________________
ल वागनाली । पिण्डिल: मेघः हिंस्रः हिमः गणकश्च । भविल: मुनिः समर्थः गृहं बहुनेता च । कोकिल: परभृतः ॥
भण्डेलुकच वा ॥ ४८२ ॥ भडुङ् परिभाषणे इत्यस्मात् । इलः प्रत्ययो नकारस्य च लुग्वा भवति । भडिल: / ऋषिः पिशाचः शत्रुश्च । भण्डिलः श्वा दूतः ऋषिश्च ॥ गुपिमिथिधुभ्यः कित् ॥ ४८३ ॥ एभ्यः किदिला प्रत्ययो 18
भवति । गुपिलं गहनम् । मिथिला नगरी।धुविळ: ऋषिः॥ स्थण्डिलकपिल विचकिलादयः॥ ४८४ ॥ स्थण्डिलादयः शब्दा इलपत्ययान्ता निपात्यन्ते । स्थले स्थण्डु च । स्थण्डिलं व्रतिशेयनवेदिका । कप च । कपिला वर्णः ।
ऋषिश्च । विचरकोऽन्तश्च । विचकिलः मल्लिकाविशेष: आदिग्रहणाद्गोभिलनिकुम्भिलादयो भवन्ति ॥ दृषिवृतिच-2 MI टिपटिशकिशक्षितण्डिमङ्ग्युत्कण्ठिभ्य उलः॥४८५॥ हर्षलः हर्षवान् कामी मृगश्च । वर्तुल वृत्तः। चटुल: च
चलः । पटुलः वाग्मी । शकुल मत्स्यः शङ्खला क्रीडनशकुः बन्धनभाण्डम् आयुधं च । तण्डुलो निस्तुषो व्रीह्यादिः। मङ्गुल न्यायापेतम् । उत्कण्ठुल: उत्कण्ठावान् । स्थावङ्किवहिबिन्दिभ्यः किन्नलुक् च ॥ ४८६ ॥ एभ्यः किदुलः प्रत्ययो नकारस्य च लुग भवति । ष्ठां गति निवृत्तौ स्थुलं पटकुटीविशेषः । वकुलः केसर: ऋषिश्च । बहुलं प्रचुरम् ।
बहुल: प्रासका कृष्णपक्षश्च । बहुलाः कृत्तिकाः । बहुला गौः विदुल वेतसः ।। कुमुलतुमुलनिचुलवजुलमञ्3 जुलपृथुलविशंस्थुलाङ्गुलमुकुलशकुलादयः ।। ४८७ ॥ एते उलमत्ययान्ता निपात्यन्ते । कमितम्योरत उच्च । कुमुलं कुसुमम हिरण्यं च । कुमुलः शिशुः कान्तश्च । तुमुलं व्यामिश्रयुद्धम् संकुलं च । निजेः किच्चश्च । निचुल: बबजुलः । वजे: स्वरान्नोऽन्तश्च । वजुलः निचुलः । मभिः सौत्रः। मञ्जुलं मनोज्ञम् । पथेः पृथ् च । पृथुलः वि. स्तीर्णः । निपूर्वांत शंसेस्थोऽन्तश्च । विशंस्थुलः व्यग्रः । अञर्ग च । अङ्गुलम् अष्टयवप्रमाणम् । मुचेः कित् कश्च । मु. कुल: अविकसितपुष्पम् । शके: स्वरात पोऽन्तश्च । शष्कुली भक्ष्यविशेषः कर्णावयवश्च । आदिग्रहणारककुलवल्गुला
जब-5555