________________
हेमप्रभा
1140 11
म्या लुपू नवा । बिलेशयः । विलशयः । बनेवासी । वनवासी । ग्रामेवासः । ग्रामवासः । बहुलाधिकारात् मनसिशय इति | सुबभावः । हृच्छय इत्यादौ तु नित्यं लुप् । अकालादिति किम् | पूर्वाह्नशयः । अयञ्जनादित्येव । भूमिशयः ॥ वर्षक्षरवराप्सरः शरोरोमनसो जे ॥ ३ । २ । २६ ॥ सप्तभ्या उत्तरपदे वा लुप् । वर्षेजः । वर्षजः । क्षरेजः । क्षरजः । बरेंजः । वरजः । अप्मुजम् । अब्जम् । सरसिजम् । सरोजम् । शरेजम् । शरजम् । उरसिजः । उरोजः । मनसिजः । मनोजः ॥ प्रावृड्वर्षाशरत्कालात् ॥ ३ । २ । २७ ॥ सप्तम्या जे उत्तरपदे न लुप् । दिविजः । प्राहृषिजः । वर्षासृजः । शरदिजः । कालेजः ॥ अपो ययोनिमतिवरे ।। ३ । २ । २८ ।। सप्तम्या न लुप् । अप्सव्यः । अप्नुयोनिः । अप्सुमतिः । अप्सुचरः ॥ नेनुसिद्धस्थे ॥ ३ । २ । २९ ।। सप्तम्या अलुप् । स्थण्डिलवर्ती । सांकाश्यसिद्धः । समस्थः । शयवासीत्यादियोगद्वयविकल्पः, शुमाद् इत्यादियोगद्वयविधिः, अनेन प्रतिषेधश्च तत्पुरुषे कृतीत्यस्यैव प्रपञ्चः । ते वै विधयः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्चेति ॥ षष्ठ्याः क्षेपे ॥ ३ । २ । ३० ॥ गम्ये उत्तरपदे न लुप् । चौरस्यकुलम् । चौरकुलमिति तु तवाख्याने ॥ पुत्रे वा ॥ ३ । २ । ३१ ॥ उत्तरपदे क्षेपे षष्ट्या न लुप् । दास्याःपुत्रः । दासीपुत्रः ॥ पश्यद्वाग्दिशो हरयुक्तिदण्डे ॥ ३ । २ । ३२ ।। परस्याः षष्ठ्याः यथासंख्यं लुन्न । पश्यतोहरः । वाचोयुक्तिः । दिशोदण्णः ॥ अदसोऽकमायनणोः ॥ ३ । २ । ३३ ॥ अदसः परस्याः षष्ठ्या अकस्विषये उत्तरपदे आयनणि च परे न लुप् । आमुष्यपुत्रिका । आम्मुष्यायणः । नडादित्वात् आयनणू || देवानांप्रियः ॥ ३ । २ । ३४ ।। षष्ट्या लुबभावो निपात्यते । देवानांप्रियः । ऋजुर्मूखों वा ॥ शेषपुच्छलाङ्गलेषु नान्निः शुनः ।। ३ । २ । ३५ ॥ परस्याः षष्ठ्याः उत्तरपदेषु न लुप् । शुनःशेषः । शुनःपुच्छः । शुनो लाङ्गुलः । नाम्नि किम् । श्वशेपम् । सिंहस्यशेषम् इत्यादिमतान्तरसंग्रहार्थे बहुवचनम् अनाम्यपि विध्यर्थम् ॥ वाचस्पतिवास्तोष्पतिदिवस्पतिदिवोदासम् ॥ ३ । २ । ३६ ।। षष्ट्यपि निपात्यते नान्नि । वाचस्पतिः । वा
ARGING
समास प्रकरणम्.
1140 11