________________
२३. हृदि विद्ध इवात्यर्थं यया संतप्यते जनः ।
पीडितोऽपि हि मेधावी न तां वाचमुदीरयेत् ॥ २४. तस्य पृथ्वी प्रसूतेऽर्थं धर्ममर्थः प्रसूयते ।
प्रसौति विजयं धर्मः स च प्रसवति श्रियम् ॥ २५. गर्हते न तथा श्वानं चाण्डालं च न गर्हति । गर्हयत्याहवे भग्नं यथासौ क्षत्रियं नरम् ॥ २६. हते भर्तरि वैक्लव्यात्क्लिन्दन्ति तदरिस्त्रियः । अजस्रैरश्रुभिस्तासां क्लिद्यन्ति नयनानि च ॥ २७. ददात्यसौ धनं भूरि ब्राह्मणेभ्यो दिने दिने । ददते ब्राह्मणास्तस्मै संतुष्टा नित्यमाशिषः ॥ २८. असौ स्वप्नायमानोऽपि कत्थते नात्मनो गुणान् । कथयन्ति जना एव तस्य तानद्भुतान् भुवि ॥ २८. वृश्चिकानां भुजङ्गानां दुर्जनानां च वेधसा ।
विभज्य नियतं न्यस्तं विषं पुच्छे मुखे हृदि ॥ 30. चन्दनैश्चर्चितेव द्यौर्दिशः काशैरिव श्रिताः ।
क्षीरेण क्षालितेवोर्वी शर्वरीशे विराजति ॥ ३१. यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि ।
आकारो पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ॥ ३२. नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति । स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥ 33. बुद्धिमान्पुरुषो जह्याद्भिन्नां नावमिवाम्भसि ।
अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥
३४. जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्ति सत्संगतिः कथय किं न करोति पुंसाम् ॥ ३५. मानुषाणां प्रमाणं स्याद्भुक्तिर्वै दशवार्षिकी ।
विहंगानां तिरश्चां च यावदेव समाश्रयः ।
३६. कृष्णसारे ददच्चक्षुस्त्वयि चाधिज्यकार्मुके । मृगानुसारिणं साक्षात्पश्यामीव पिनाकिनम् ॥
सु. सं. भन्दिरान्तः प्रवेशिका ૧૬૫ ૨ પાઠ
-