SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ विषेण स मदीयेन त्वयि दुःखं निवत्स्यति ।।.. १३. विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति । ___तावत्त्वयि महाराज दुःखं वै स निवत्स्यति ॥ १४. अनागा येन निकृतस्त्वमन) जनाधिप । क्रोधादसूययित्वा तं रक्षा मे भवतः कृता । १५. न ते भयं महावीर दंष्ट्रिभ्यः शत्रुतोऽपि वा। ब्रह्मर्षिभ्यश्च भविता मत्प्रसादानराधिप ॥ १६. राजन्विषनिमित्ता च न ते पीडा भविष्यति । सङ्ग्रामेषु च राजेन्द्र शश्वज्जयमवाप्स्यसि । १७. गच्छ राजनितः सूतो बाहुकोऽहमिति ब्रुवन् । समीपमृतुपर्णस्य स हि चैवाक्षनैपुणः । अयोध्या नगरी रम्यामद्य वै निषधेश्वर ।स तेऽक्षहृदयं दाता राजाश्वहृदयेन वै ॥ १८. इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति । भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदा ॥ १८. समेष्यसि च दारेस्त्वं मा स्म शोके मनः कृथाः। राज्येन तनयाभ्यां च सत्यमेतब्रवीमि ते ॥ २०. स्वं रूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप । संस्मर्तव्यस्तदा तेऽहं वासश्चेदं निवासयेः ॥ २१. अनेन वाससाच्छन्नः स्वं रूपं प्रतिपत्स्यसे। इत्युक्त्वा प्रददौ तस्मै दिव्यं वासोयुगं तदा ॥ २२. एवं नलं च संदिश्य वासो दत्त्वा च कौरव । नागराजस्ततो राजंस्तत्रैवान्तरधीयत ॥ २३. मरिष्यामि विजेष्ये वा हताश्चेत्तनया मम । हनिष्यामि रिपुंस्तूर्णं न जीविष्यामि दुःखितः ॥ २४. स्मेष्यन्ते मुनयो देवाः कथयिष्यन्ति चानिशम् । - दशग्रीवस्य दुर्नीतैर्विनष्टं रक्षसां कुलम् ॥ २५. मधुकर मदिराक्ष्याः शंस तस्याः प्रवृत्तिं वरतनुरथवासौ नैव दृष्टा त्वया मे । यदि सुरभिमवाप्स्यस्तन्मुखोच्छ्वासगन्धं तव रतिरभविष्यत्पुण्डरीके किमस्मिन् ॥ २६. अकरिष्यदसौ पापमतिनिष्करुणैव सा । नाभविष्यमहं तत्र यदि तत्परिपन्थिनी ॥ દિલ સુ. સં. મન્દિરાઃ પ્રવેશિકા દલાલ ૧૪૨ કિલો પાઠ - ૧૫ %
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy