________________
१०. तस्य परासोरस्थीनि देवा जगृहुस्त्वष्टारं च गत्वा तं तेषामुग्रं वजं कारयामासुः । ११. ततस्त्वष्टा शक्रमुवाचैतद्गृहीत्वा वृत्रं जहि। १२. इन्द्रेण सहिता देवा रोदसी आवृत्य तिष्ठन्तं कालेयैरभिरक्षितं च वृत्रमासेदुः ।
तांश्च युद्धायाजुहुविरे। १३. तैः सह देवानां तुमुलं युद्धं समापेदे रजोभिः सर्वा दिशो व्यानशिरे।दानवेभ्यश्च
देवा भृशं त्रेसुः। १४. इतस्ततः प्रधावतां तेषां वेगं देवा दौर्बल्यान्न सेहिरे भीताश्च पलायामासुः। १५. तादृशांस्तान्दृष्ट्वेन्द्रो विष्णुं शरणं वव्राज। . १६. ततो विष्णुरात्मनस्तेज इन्द्रे निदधे । देवाश्च महर्षयश्चापि तथा विदधिरे। १७. ततो रणधुरामेकोऽपीन्द्र उवाह। १८. स वृत्रस्य वधाय महद्वजं मुमोच । तेन हतो वृत्रो भूमौ सुष्वाप । १८. कोट्याकोट्या पुरद्धारमेकैकं रुरुधे द्विषाम् । २०. तत्कर्म वालिपुत्रस्य दृष्ट्वा विश्वं विसिष्मिये ।
संत्रेसू राक्षसाः सर्वे बहु मेने च राघवः ॥ २१. सुग्रीवो मुमुदे देवाः साध्वित्यूचुः सविस्मयाः। - बिभीशणोऽभितुष्टाव प्रशशंसुः प्लवंगमाः॥ २२. राघवो न दयाञ्चक्रे दधुधैर्य न केचन । मने पतङ्गवीरहहिति च विचुक्रुशे ॥ २३. प्राणा दध्वंसिरे गात्रं तस्तम्भे च प्रिये हते ।
उच्छश्वास चिराद्दीना रुरोदासौ ररास च ॥ २४. लोहबन्धैर्बबन्धे नु वज्रेण किं विनिर्ममे।
मनो मे न विना रामाद्यत्पुस्फोट सहस्रधा ॥ २५. उत्तेस्थि समुद्रं त्वं मदर्थेऽरिब् जिर्हिसिथ ।..
ममर्थ चातिघोरां मां धिग्जीवितलघूकृताम्॥ २६. मालिन्यं मार्जयामास चन्द्रमास्तिमिरैः कृतम्।
खलैर्दत्तं मृषा दोषमिव सत्पुरुषः सताम् ॥ २७. ऐन्द्रेण हवै महाभिषेकेण संवर्त आङ्गिरसो मरुत्तमाविक्षितमभिषिषेच। तस्मादु
मरुत्त आविक्षितः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे । तदप्येष श्लोकोऽभिगीतः। સુ. સં. મન્દિરાઃ પ્રવેશિકા દશ ૧૩૧ રાજાના પાઠ - ૧૪ કા