________________
( ८४ )
श्रीलघुहेमप्रभाव्याकरणम्.
I
टिल्ययोश्च । ४५ ॥ पृणत् शुभे । ४६ ॥ मुणत् प्रतिज्ञाने । ४७ ॥ कुणत् शब्दोपकरणयोः । ४८ ॥ घुण घूर्णत् भ्रमणे । ४९ ॥ तैत् हिंसाग्रन्थयोः । ५० ॥ चर्त्तिष्यति । चस्र्त्स्यति । दंत् प्रेरणे । ५१ ॥ अयमुभयपदीत्यन्ये । षत् अवसादने । ५२ ॥ सीदतेि । असदत् । इहास्य पाठो वान्ता देशार्थः । ज्वलादिपाठस्तु णविकल्पार्थः । विधत् विधाने । ५३ ।। जुन शुनत् गतौ । ५४ ॥ छंपत् स्पर्शे । ५५ ।। रिफत् कत्थनयुद्ध हिंसादानेषु । ५६ ।। ऋफदित्येके । तृफ तृम्फत् तृप्तौ । ५७ ।। मुचादितृफेति ने । तृम्फति । नविधानबलानलुगभावः । तृम्फ़ेस्तु तृफति । पान्ताबेतावित्यन्ये । शे नलुचं च नेच्छन्ति । ऋफ ऋम्फत् हिंसायाम् । ५८ ॥ ऋफति । नलुंचं नेच्छन्त्येके । इकारोपान्त्यो रादिश्चायमित्यन्यः । दृफ हम्फत् उत्क्लेशे ॥५९॥ गुफ गुम्फत् ग्रन्थने । ६० ।। उभ उम्भत् पूरणे । ६१ ॥ शुभ शुम्भत् शोभार्थे । ६२ ॥ दृत् ग्रन्थे । ६३ ।। लभत् विमोहने । ६४ ।। लोभिता । लोब्धा । कुरत् शब्दे । ६५ ।। क्षुरत् विलेखने | ६६ ॥ खुरत् छेदने च । ६७ ॥ घुरत् भीमार्थशब्दयोः । ६८ ॥ पुर अग्रगमने । ६९ ।। मुरत् संवेष्टने । ७० ॥ सुरत् ऐश्वर्यदीप्त्योः । ७१ ॥ सुसोर। षोपदेशोऽयमित्यन्ये । स्फर स्फलत् स्फुरणे । ७२ ॥ किलत् श्वैत्यक्रीडनयोः । ७३ ।। इलत् गतिस्वप्रक्षेपणेषु । ७४ ॥ हिलत हावकरणे । ७५ ।। शिल सिलत् उच्छे | ७६ ॥ सिसेल | पोपदेशोऽयमित्येके । तिलत् स्नेहने । ७७ ॥ चलत् विलसने ॥ ७८ ॥ चिलत क्सने । ७९ ।। विलत् वरणे । ८० ॥ बिल भेदने । ८१ ॥ गिलत् गहने । ८२ ।। प्रणिलति । मिलत् श्लेषणे । ८३ ॥ स्पृशंत् संस्पर्शे । ८४ ॥ अस्माक्षीत् । अस्पार्क्षत् । अस्पृक्षत् । रुशं रिशंत्