________________
(७४)
श्रीलघुहेमप्रभाव्याकरणम्.
। १०१ ॥
रध इटि तु परोक्षायामेव ॥ ४ । ४ स्वरात्परः स्वरादौ प्रत्यये नोऽन्तः । ररन्ध ररन्धतुः । ररन्धिथ । ररन्धिव । रधिता । रद्धा । तृपौच् प्रीतौ । ३९ ॥ तृप्यति । अत्राप्सीत् । आताप्सीत् । अतपत् । अतृपत् । दृपौच हर्षमोहनयोः॥४०॥ कुपच् क्रोधे । ४१ ॥ गुपच् व्याकुलत्वे । ४२ ।। ग्रुप रुप लुपच् विमोहने । ४३ ॥ डिपच् क्षेपे । ४४ ॥ ष्टुपच् समुच्छ्राये । ४५ ।। लुभच् गाद्धर्थे । ४६ ।। लोभिता । लोब्धा । क्षुभच् सञ्चलने|४७।। णभ तुभच् हिंसायाम् । ४८ ॥ नशौच अदर्शने । ४९ ॥ नश्यति ।
नशः शः ॥ २ । ३ । ७८ ।।
अदुरुपसर्गान्तः स्थाद्रादेः परस्य नो णः ॥ प्रणश्यति । श इति किम् ? प्रनष्टः । नशेरणोपदेशत्वात् पूर्वेणा सिद्धेर्विध्यर्थमिदम् । नशेर्नेश वाऽङि ॥ ४ | ३ | १०२ ॥
अनेशत् । अनशत् ।
wwww
नशो धुटि ॥ ४ । ४ । १०९ ॥
स्वरात्परः प्रत्यये नोऽन्तः ॥ नंष्टा । नशिता । नङ्क्ष्यति । नशिष्यति । कुशच् श्लेषणे । ५० ॥ भृशु भ्रंशुच् अधःपतने । ५१ ।। दृशच् वरणे । ५२ ॥ कृशच् तनुखे । ५३ ॥ शुषंच् शोषणे ॥ ५४ ॥ दुषंच् वैकृत्ये । ५५ ।। श्लिषंच् आलिङ्गने । ५६ ।।
श्लिषः ॥ ३ । ४ । ५६ ॥
अनिटोsथतन्यां सक् ॥ अश्लिक्षत् । पुष्यादित्वादङ प्राप्ते वच-नम् । पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते नोत्तरान् इत्यङ एव बाधा न विचः । आश्लेषि कन्या देवदत्तेन । अनिट इस्पे ।