________________
आख्यातपकरण
एषामीयंजनेऽदः॥ ४ । २ । ९७ ॥ द्वयुक्तजक्षपञ्चतः श्भश्चातः शित्यविति व्यञ्जनादावीः स्यात् न तु दासंज्ञकस्य । जहीतः। नश्वात इत्यालुकि । जहति ॥
यि लुक् ॥ ४ । २ । १०२॥ शिति हाकोन्तस्य ॥ जह्यात् ॥
आ च हौ ॥ ४।२।१०१॥ हाक इर्वा ॥ जहाहि । जहिहि । जहीहि । जहिता । जहीता। अजहात् । अहासीत् । जहौ । हेयात् । विभीक् भये ।३॥ बिभेति ।
भियो नवा ॥ ४ । २ । ९९ ॥ व्यञ्जनादौ शित्यवति इः ॥ बिभितः । विभीतः । बिभ्यवि । विभीयात् । विभियात् । अभैषीत् । भीहीत्यामि । विभयाश्चकार । बिभाय । हींक लजायाम् । ४ ॥ जिहेति । जिहीतः । जिहियति । आहेषीत् । जिहयाञ्चकार । जिहाय । पृक् पालनपूरणयो । ५ ॥
प्रभृमाहाङामिः ॥ ४ । १ । ५८ ॥ शिति द्वित्वे पूर्वस्य ॥ पिपर्ति । पिपृतः। पिप्रति । केचित्तु दीर्घान्तमिमं पठन्ति । तन्मतसङ्ग्रहार्थन्तु पृश्च ऋश्चेति विग्रहः । अत एव च बहुवचनम् । अत्र पक्षे ।
ओष्ठयादुर् ॥ ४ । ४ । ११७ ॥ धातोः परस्य ऋतः किति ॥ भ्वादेनामिन इति दीर्थे। पिपूर्तः। पिपुरति । पिपृयात् । पिपर्तुः । पिपृतात् । अपार्षीत् । मतान्तरे ।