________________
आख्यातप्रकरणम्.
( ५५ )
यतीति तु यौजादिकस्य घनन्ताद्वा णिच् । छद ऊर्जने । ३३ ॥ छदण् संवरणे इति चुरादिरयम् ।। मदे हर्षग्लपनयोः । ष्टन स्तन ध्वन शब्दे । ३५ || स्वन अवतंसने । ३६ ॥ चन हिंसायाम । ३७ ॥ ज्वर रोगे । ३८ ॥ चल कम्पने । ३९ ।। इल ह्मल चलने । ४० ।। ज्वल दीप्तौ च । ४१ ॥ केचित्तु दलि वलि स्खलि क्षपि त्रीणामपि घटादित्वमिच्छन्ति ॥ हृत् घटादिः । भ्वादिराकृतिगणस्तेन चुलुम्पतीत्यादिसङ्ग्रहः ॥
॥ इति घटादिः ॥
* ॥ इति भ्वादयो निरनुबन्धा धातवः ॥ *
इति श्रीतपोगच्छाचार्य विजयदेवसूरिविजयसिंहसूरिपट्टपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धि विजयचरणकमलामलिन्दायमानान्तेवासिसंविग्नशाखीय तपोगच्छाचार्यभट्टारक श्रीविजयनेमिसरिविरचितायां लघुहेमप्रभायामुत्तरार्द्धे भ्वादिगणः ॥
॥ अथादादयः ॥
अदं प्लांक् भक्षणे । १ ॥ अद्भ्य इति पर्युदासान शब् । अति । अन्तः । अदन्ति । अत्सि । अस्थः । अत्थ । अद्मि । अः । अद्मः । अद्यात् । अत्तु | अत्तात् ॥
हुधुटो हेर्धिः ॥ ४ । २ । ८३ ॥
अद्धि || अदानि ||