________________
( ४६ )
श्रीलघु हेमप्रभाव्याकरणम्. एधोदकस्योपस्कुरुते । उपस्कृतं भुङ्क्ते । सोपस्कारं सूत्रम् । हिक्की अव्यक्ते शब्दे । ७ ॥ अब्चूग् गतौ च । ८ ॥ डुयाचंग् याश्चायाम् । ९ ॥ विदयामित्येके । डुपचष् पाके । १० ॥ अपाक्षीत् । अपक्त । राजग् दुभ्राजी दीप्तौ । ११ ॥ रेजतुः । रराजतुः । भ्रेजतुः । बभ्राजतुः । भ्राजेरिह पाठः षत्वविधावस्यैव ग्रहणार्थः । पवमेवाविकल्प्य पुनः पाठ आत्मनेपदानित्यत्वज्ञापनार्थः । तेन सेवति, सेवते इत्यादि सिद्धम् । भजीं सेवायाम् । १२ ।। बभाज । भेजे । रञ्जीं रागे । १३ ॥
अकट्घिनोश्च रजेः ॥ ४ । २ । ५० ॥
शव्युपान्त्यनो लुक् || रजति । रजते । व्यञ्जनानामनिटीत्यत्र बहुवचनस्य जात्यर्थत्वादत्रापि वृद्धौ, अराङ्क्षीत् । अरङ्क्त । रेहग् परिभाषणयाचनयोः | १४ ॥ वेणुग् गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु |१५|| नान्तोऽप्ययमिति केचित् । चतेग् याचने | १६ || अचतीत् । अच्चतिष्ट । प्रोथुग पर्याप्तौ । १७ ॥ मिथुन मेधाहिंसनयोः | १८ || मेथु सङ्गमे च । चदेग् याचने । २० ॥ ऊबुन्दृग् निशामने | २१ || अबुदत् । अबुन्दीत् | अबुन्दिष्टं । धान्तोऽयमिति नन्दी | णि णेदृग् कुत्सासन्निकर्षयोः | २२ | मिह मेदृग् मेधाहिंसयोः | २३ || मेधृग् सङ्गमे च । २४ ॥ गृधूग् मृधूग् उन्दे । २५ ।। बुधृग् बोधने । २६ || अबुधत् | अबोचीत् | अबोधिष्ट । खन्ग् अवदारणे । २७ ॥ गमहनेत्यल्लुकि वनतुः । चख्ने । दानी अवखण्डने । २८ || आर्जवे दीदांति । दीदांसते । शानी तेजने । २९ ॥ निशाने शीशांसति ।