________________
(३४)
श्रीलघुहेमप्रभाव्याकरणम्.
श्नुः ॥ तक्ष्णोति । तक्षति काष्ठम् । स्वार्थे किम् ? । सन्तक्षति वाग्भिः शिष्यम् । निर्भयतीत्यर्थः। इदमेव स्वार्थग्रहणं ज्ञापयति, अनेकार्था धातव इति । त्वक्षिता। त्वष्टा । णिक्ष चुम्बने । ३०१ ॥ प्रणिक्षति । वृक्ष स्तृक्ष णक्ष गतौ । ३०२ ॥ वक्ष रोषे । ३०३ ॥ सङ्घाते इत्येके । त्वक्ष त्वचने । ३०४ ॥ सूर्य अनादरे । ३०५ ॥ काक्षु वासु माशु काङ्क्षायाम् । ३०६ ॥ द्राक्षु धाक्षु ध्वाक्षु घोरवासिते च । ३०७ ॥ द्रासति ॥ .... ॥ इति भ्वादयः परस्मैपदिनः ॥
॥ अथात्मनेपदिनः ॥
गाङ्गतौ।१॥ गाते। अन्तरङ्गत्वादवा सह धातोराकारस्य दीर्घ आतामाते इत्यादिनेत्वं न । गाते ॥
अनतोऽन्तोऽदात्मने ॥४।२। ११४ ।। गाते । गासे । गाथे । गाध्वे । गे। गावहे । गामहे ॥ गेत । गेयाताम् । गेरन् । गेथाः । गेयाथाम् । गध्वम् । गेय । गेवहि । गेमहि ॥ गाताम् । गाताम् । गाताम् । गास्व । गाथाम् । गाध्वम् । गै। गावहै । गामहै ॥ अगात । अगाताम् । अगात । अगाथाः । अगाथाम् । अगाध्वम् । अगे। अगा- - वहि । अगामहि ॥ अगास्त । अगासाताम् । अगासत । अगास्थाः । अगासाथाम् ॥