________________
vvvvvvvvv
( ३२ ) श्रीलघुहेमप्रभाव्याकरणम्.
स्पृशमृशकृषतृपडपो वा ॥३। ४ । ५४ ॥ अद्यतन्यां सिच् ॥ अक्राीत् । अकार्षीत् । पक्षे ॥ हशिटो नाम्युपान्त्याददृशोऽनिटः सक् ॥३४॥५५॥
धातोरद्यतन्याम् ॥ अकृक्षत् । अकृक्षताम् । कष शिष जप झष वष मष मुष रुष रिष यूष जूष शष चष हिंसायाम् । २७० ॥
सह लुभेच्छरुषरिषस्तादेः॥४।४। ४६ ॥
स्तायशित आदिरिड् वा ॥ रोषिता। रोष्टा । रोषिता । रेष्टा । वृष सङ्घाते च । २७१ ॥ भष भर्त्सने । २७२ ॥ जिषू विधू मिळू निषू पृषू वृषू सेचने । २७३ ॥ मृणू सहने च । २७४ ॥ उषू श्रिषू श्लिष पुषू प्लुष दाहे । २७५ ॥ औषीत् ॥
जाग्नषसमिन्धेर्न वा ॥३। ४ । ४९ ॥ परोक्षाया आम् ॥ आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते । ओखाश्चकार । ओखाश्चक्रतुः। " वेत्तेः किदिति" कित्वातिदेशस्यामः परोक्षावद्भावाभावज्ञापकत्वेन नेह द्वित्वादयः । पक्षे । उवोष । ऊपतुः । उवोषिथ । घृणू सङ्घर्षे । २७६ ॥ हृत अलीके । २७७ ॥ पुष पुष्टौ । २७८ ॥ अपोषीत् । अविधायके सनिर्देशादस्य पुषादेन ग्रहणम् । भूष तसु अलङ्कारे । २७९ ॥ तुस हस हलस रस शब्दे । २८० ॥ लस श्लेषणक्रीडनयोः। २८१ ॥ घस्लं अदने । २८२ ॥ अघसत् । जघास ।
घस्वसः ॥२।३। ३६ ॥