________________
( २८ )
श्रीलघुहेमप्रभाव्याकरणम्.
लदिद्युतादिपुष्यादेः परस्मै ॥ ३ । ४ । ६४ ॥
कर्त्तर्य्ययतन्यामङ् || असृपत् ॥
स्पृशादिसृपो वा ॥ ४ । ४ | ११२ ॥
स्पृशमृशकृपतृपदृपां सृपश्च स्वरात्परो घुडादौ प्रत्ययेऽदन्तो वाऽकिति ॥ स्रुप्ता । सप्त ।। चुप मन्दायां गतौ । १९५ ।। तुप तुम्प त्रुप त्रुम्प तुफ तुम्फ त्रुफ त्रुम्फ हिंसायाम् । १९६ ॥ नलुकि तुष्यात् ॥
प्रात्तुम्पतेर्गवि ॥ ४ । ४ । ९७ ॥
कर्त्तरि सडादिः || प्रस्तुम्पति गौः । वर्फ रफ रफु अर्ब कर्व खर्ब गर्व चर्व तर्ब नर्व पर्व बर्व शर्व पर्व सर्व रिबु बु गतौ । १९७ ॥ कुबु आच्छादने । १९८ ॥ लुगु तुबु अर्द्दने । १९९ ॥
बु वक्रसंयोगे । २०० ॥ सृभू सृम्भू त्रिभू पिम्भू भर्भ हिंसायाम् । २०१ ॥ शुम्भ भाषणे च । २०२ ॥ यभं जभ मैथुने । २०३ ॥ यब्धा ॥
जभः स्वरे ।। ४ । ४ । १०० ॥
स्वरात्परो नोऽन्तः ॥ जम्भति ॥ चमू छमू ज्झमू जिमू भदने । २०४ ॥
ष्ठिवूक्लम्वाचमः ॥ ४ । २ । ११० ॥
शित्यतादौ दीर्घः ॥ आचामति । चमति । अचमीत् ॥ क्रमू पादविक्षेपे । २०५ ।।