________________
आख्यातप्रकरणम्.
( २३ )
- vvvvvvvvvvvvvvvv~~~~~~~~
उपान्त्यनस्य लुक् ॥ सजति । इति चवर्गीयान्ताः॥ कटे वर्षाघरणयोः । ९० ॥ न श्विजागृशसक्षणम्येदितः ॥ ४ । ३ । ४९ ॥ .
धातोः परस्मैपदपरे सेटि सिचि वृद्धिः ॥ अकटीत् । शसः स्थाने श्वसं पठन्त्यन्ये । शट रुजाविशरणगत्यवसादनेषु । ९१ ॥ वट वेष्टने । ९२ ॥ ववटतुः । किट खिट उत्रासे । ९३ ॥ शिट षिट अनादरे ।९४॥ जट ज्झट सङ्घाते ।९५॥ पिट शब्दे च ।९६॥ भट भृतौ । ९७ ॥ तट उच्छाये । ९८ ॥ खट काझे । ९९ ॥ गट नृत्तौ । १००॥
पाठे धात्वादेों नः ॥ २।३ । ९७ ॥ नटति । अदुरुपसर्गेति णत्वे मणटति । नोपदेशोऽयामिति केचित् । इट दीप्तौ । १०१ ॥ षट अवयवे । १०२ ॥ लुट विलोटने । १०३ ॥ चिट प्रैष्ये । १०४ ॥ विट शब्दे । १०५ ॥ हेट विवाषायाम् । १०६ ॥ डान्तोऽयमित्येके । अट पट इट फिट कट कटु कटै गतौ । १०७ ॥ अस्यादेरित्यात्वे । आट। आटतुः । कुटु पैकल्ये । १०८ ॥ मुट प्रमईने । १०९ ॥ चुट चुटु अल्पीभावे । ११० ॥ वटु विभाजने । १११ ।। रुटु लुटु स्तेये । ११२ ॥ स्फुट स्फुट विशरणे । ११३ ॥ लट बाल्ये । ११४ ॥ रट रठ च परिभाषणे ।११५।। पठ व्यक्तायां वाचि ।११६॥ वठ स्थौल्ये ।११७॥ मठ मदनिवासयोश्च । ११८ ॥ कठ कृच्छ्रजीवने । ११९ ॥ हठ:पलात्कारे । १२० ॥ उठ रुठ लुठ उपघाते । १२१:। उयो ।