________________
( २२ )
श्री लघुहेमप्रभाव्याकरणम्.
अशिति विषये ॥ अवैषीत् । अन्ये त्वयव्यञ्जनादौ विकल्पमिच्छन्ति तन्मते | आजीत् । अजितेत्याद्यपि । विवाय । विव्यतुः । विवयिथ । विवेथ । थवि, सृजीत्यादिना वेट् । तदुक्तम्
"स्वरान्तोऽकारवान्वाय - स्तृच्यनिट् थवि वेडयम् । ऋदन्त ईदृग् नित्यानिट्, स्त्राद्यन्यः सेट् परोक्षके ॥ १ ॥ " वेता ॥ कुज् खुजू स्तेये । ७२ ॥ अर्ज सर्ज अर्जने । ७३ ॥ आनर्ज | कर्ज व्यथने । ७४ ॥ खर्ज मार्जने च ॥ ७५ ॥ खज मन्थे । ७६ ॥ खजु गतिवैकल्ये । ७७ || एज़ कम्पने । ७८ ॥ एजां चकार ६ । ट्डोस्फूर्जा वज्रनिर्घोषे । ७९ ॥ स्फूर्जति । क्षीज कूज गुज गुजु अव्यक्ते शब्दे । ८० ।। लज लजु तर्ज भर्त्सने । ८१ ।। लेजतुः । लाज लाजु भर्ज्जने च । ८२ ॥ जज जजु युद्धे । ८३ ॥ तुज हिंसायाम् । ८४ ॥ तुजु वलने च । ८५ ॥ गर्ज गजु गृज गृजु सुज मृजु मज शब्दे ॥८६॥ भगाजीत् । अगजीत् । त्यजं हानौ । ८८ ॥
गज मदने च ॥८७॥
व्यञ्जनानामनिटि ॥ ४ । ३ । ४५ ॥
धातूनां परस्मैपदविषये सिचि समानस्य वृद्धिः ॥ अत्याक्षीत् ॥
धूड् हस्वाल्लुगनिटस्तथोः ।। ४ । ३ । ७० ॥ धातोः सिचः ॥ स्यक्ता । पअं सने । ८९ ।।
अत्याक्ताम् । अत्याक्षुः । तत्याज ।
दंशसञ्जः शवि ॥ ४ । २ । ४९ ॥