________________
(२७८)
श्रीलघुहेमभाव्याकरणम्.
-wwwwwwwwwwwwwwwwww
तत्रानुपचकार कोटिकपदाख्येयं द्वितीयं महोल्लासं गच्छमतुच्छमानममलाचारप्रचारोज्ज्वलम् ॥६॥ चन्द्रस्तत्र जिनागमोदधिमहावृद्धयेकहेतूदयः सूरिश्चन्द्रपदाभिधेयममलं गच्छं तृतीयं व्यधात् ॥ उत्कृष्टं वनवासिगच्छमतनोत्सामन्तभद्राभिधः मूरिस्तुर्यमनु प्रकृष्टतपसाऽवाप्तप्रभावस्ततः ॥ ७ ॥ तत्रैवानु मतिप्रकर्षविहितानेकान्ततत्त्वप्रथः सङ्ख्यातीतगुणैकसम नयविच्छीसर्वदेवाभियः ॥ सूरिः पञ्चममिष्टपद्धतिगतं गच्छ वटाख्यं व्यधात् सच्छायं भवतापखिन्नजनताशान्त्यद्वितीयास्पदम् ॥ ८ ॥ तत्रानुज्झितपूर्वपद्धतिरिति स्याद्वादवृद्धयेकभूः श्रद्धाराधितवीरदर्शितपथानुत्क्रान्तकल्पव्रजः ॥ मूरिः षष्ठमतुच्छमक्षरपदं गच्छं तपाख्यं जगचन्द्राख्योऽनु ततान भव्यजनतामोदप्रदं निर्मलम् ॥९॥ गच्छे कल्पतरावनल्पविबुधप्रागल्भ्यलब्धोदये सुस्फीतामृतसारकम्रफलके सत्पञ्चकल्पप्रथे ॥ भव्यालिप्रकरम्बिते सुमनसारम्भादियोगोज्ज्वले तत्रानेकदलान्वितागपथे सुश्लिष्टशाखोत्करे ॥ १० ॥ श्रोहीरेण नयागमार्थमननावीरेण वीरार्थनासारेणाप्तगुणोत्करेण महिमाधारेण मुक्त्यर्थिना ॥ भव्याम्भोजदिवाकरेण गमिते काष्ठां परां मूरिणा सद्योगादिविधिव्रजेन विबुधाराध्येन सत्कीर्तिना॥ ११ ॥ देवेनागमरत्ननिध्यधिगतानर्धार्थचिन्तामणिप्रद्योतेन गुणप्रकर्षवसतिं रम्यां गतेनार्थिताम् ॥