________________
प्रशस्तिः
(२७७)
vavvvvvvvvvvvvvvvvvvvvvvvv~
प्रशस्तिः ॥ सूत्रालम्बनमात्रगापि तनुते चित्रां मतिं कुत्रचित् सन्धौ न प्रथिमानमेति नियतै लिङ्गैः पुनर्भासते ॥ याख्याताऽव्ययधातुभिः सह समासेऽभीष्टकृत्मत्यये लघ्वी कारकमत्यये भवतु सा हेमप्रभैषा मुदे ॥१॥ येषां नार्थविशेषसङ्घहविधौ सामर्थ्यमस्त्युद्भटं वाञ्छा साधुपदप्रयोगविपयाऽस्त्यर्थे प्रसिद्धेऽखिले ॥ आत्मीयत्वमुपागताऽतिमहता यत्नेन तेषां मुदं लघ्वीयं तनुते परीक्षितपदा हेमप्रभा सर्वतः ॥२॥ छद्मस्थेषु सदा स्खलद्गतितया दोषप्रबन्धान्वये नो हास्यास्पदमत्र दोषघटनायां स्यामहं धीमताम् ।। नो प्रार्थ्याः कृतिनो निसर्गगरिमावासा मया शोधने तेषां दोषगणप्रमार्जनविधिस्स्वाभाविकोऽयं यतः॥ ३ ॥ श्रीवीरस्य समस्ततत्त्वविदुषो निर्मूलमुन्मूलितस्वान्तध्वान्तगणस्य पूज्यचरणद्वन्द्वस्य शक्रादिभिः॥ अन्याऽबाध्यपरीक्षितागमसमुल्लासाप्तकीविभोः पटें भव्यकदम्बपूज्यममलं विद्योतते सर्वदा ॥४॥ तत्राप्तो गणभृन्मणिः सुप्रथितार्हद्धर्मचिन्तामणिः सन्दिष्टागममुक्तिमार्गधरणिभव्याम्बुजाशामणिः ।। निर्ग्रन्थाभिधगच्छमच्छमसमं सूरिः सुधर्माभिधः प्रत्यष्ठापयदादिमं गुणगणारामं मुमान्यं सताम् ॥५॥ सरिः मुस्थिवसंझको जिनमतमागल्भ्यकान्तालयो वादिबातमवार्थसाथदलनाकृष्ठोल्लसद्धीमयः॥