________________
(२७६)
श्रीलघुहेमप्रभाव्याकरणम्.
किं तर्हि वृषल ! मन्दं कृत्वा कथयसि ॥ तिर्यचाऽपवर्गे ॥ ५ । ४ । ८५ ॥
गम्येऽव्ययेन योगे तुल्यकर्तृकार्थात् कृगो धातोः सम्बन्धे वाणम । अपवर्गः क्रियासमाप्तिः । तिर्यक्कृत्य, तिर्यक्कारमास्ते । अपवर्ग इति किम् ? । तिर्यक्कृत्वा काष्ठं गतः ॥ स्वाङ्गतश्च्व्यर्थे नानाविनाधार्थेन भुवश्च ॥ ५ । ४ । ८६ ॥
योगे तुल्यकर्तृकार्थात्कृगो धातोः सम्बन्धे त्वाणमौ । मुखतो भूत्वा, मुखतोभूय, मुखतोभावमास्ते । नाना भूत्वा, नानाभूय, नानाभावं गतः । विना भूत्वा, विनाभूय, विनाभावं गतः । द्विधा भूत्वा, द्विधाभूय, द्विधाभावमास्ते । एवं पार्श्वतः कृत्वा, पार्श्वतः कृत्य, पार्श्वतः कारं शेते इत्यादि । व्यर्थ इति किम् ? | नाना कृत्वा भक्ष्याणि भुङ्क्ते ॥
तूष्णीमा ॥ ५ । ४ । ८७ ॥
योगे तुल्यकर्तृकार्थाद् भ्रुवो धातोः सम्बत्थे त्वाणमौ । तूष्णीं भूत्वा । तूष्णींभूय । तूष्णींभावमास्ते ॥
आनुलोम्येऽन्वचा ॥ ५ । ४ । ८० ॥
अव्ययेन योगे गम्ये तुल्यकर्तृकार्थाद्भुवो धातोः सम्बन्धे तत्वामौ । अन्वग्भूत्वा, अन्वग्भूय, अन्वग्भावमास्ते । आनुलोम्य इति किम् ? | अन्वग्भूत्वा विजयते ॥
इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहसूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रा परनामवृद्धि विजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीय तपोगच्छाचार्यभट्टारक श्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायामुत्तरार्द्ध उत्तरकृदन्तप्रक्रिया |