________________
उत्तरकृदन्तप्रकरणम्.
(२७५)
भ्रूविक्षेपं भ्रुवौ विक्षिप्य वा जल्पति । स्वाङ्गेनेति किम् ? | कफमुन्मूल्य जल्पति । अध्रुवेणेति किम् ? । शिर उत्क्षिप्य वक्ति ॥ परिक्लेश्येन ॥ ५ । ४ । ८० ॥
स्वाङ्गेन द्वितीयान्तेन योगे तुल्यकर्तृकार्थाडातोः सम्बन्धे णम्वा ॥ उरांसि प्रतिषेषम्, उरः प्रतिषेषम्, उरांसि प्रतिपेष्य वा युध्यन्ते ॥
विशपतपदस्कन्दो वीप्साभीक्ष्णये ॥ ५ । ४ । ८१ ॥
द्वितीयान्तेन योगे तुल्य कर्तृकार्थाद् गम्ये धातोः सम्बन्धे णम्वा ॥ गेहं गेहमनुप्रवेश, गेहानुप्रवेशमास्ते । गेहमनुप्रवेशमनुप्रवेशं, गेहानुप्रवेशमास्ते । गेहं गेहमनुप्रपातं गेहानुप्रपातमास्ते । गेहमनुप्रपातमनुप्रपात, गेहानुप्रपातमास्ते । एवं गेहानुप्रपादम् ३ । गेहानुस्कन्दम् ३ ॥
कालेन तृष्यस्वः क्रियान्तरे ।। ५ । ४ । ८२॥
द्वितीयान्तेन योगे धातोः सम्बन्धे णम्वा । द्वयहं तर्षे, द्वयहवर्षे गावः पिवन्ति । द्वयहमत्यासं द्वयहात्यासं गावः पिवन्ति ॥
नाम्ना ग्रहादिशः ॥ ५ । ४ । ८३ ॥
द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद्धातोः सम्बन्धे णम्वा । नामनि ग्राहं, नामग्राहमाह्वयति । नामान्यादेशं, नामादेशं दत्ते । पक्षे, नाम गृहीत्वा दत्ते || कृगोऽव्ययेनानिष्टोक्तौ त्वाणमौ ॥ ५ । ४ । ८४ ॥
योगे तुल्यकर्तृकार्थाद् गम्यायां धातोः सम्बन्धे । ब्राह्मण ! पुत्रस्ते जातः, वृषल ! किं तर्हि नीचैः कृत्य, नीचैः कारं कथयसि, उच्चैर्नाम प्रियमाख्येयम्। अनिष्टोक्ताविति किम् ? । उच्चैः कृत्वाऽऽचष्टे, ब्राह्मण ! पुत्रस्ते जात इति । अव्ययेनति किम् ? । ब्राह्मण ! पुत्रस्ते जातः,