________________
( २७४ )
श्रीलघुहेमप्रभाव्याकरणम्.
धातोर्धात्वन्तरेण तुल्यकर्तृकार्था तृतीयान्तेन योगे णम्वा ॥ दण्डेोपघातं दण्डोपघातं दण्डेनोपहत्य च गाः सादयति । एकाप्यादिति किम् ? ।। दण्डेनोपहत्य चौरं गोपालको गाः खेटयति ॥
उपपीडरुधकर्षस्तत्सप्तम्या ॥ ५ । ४ । ७५ ।।
योगे तुल्यकर्तृकाद्धातोस्सम्बन्धे णम्वा ॥ पार्श्वभ्यामुपपीडं, पार्श्वोपपीडं शेते । पार्श्वयोरुपपीडं, पार्श्वोपपीडं शेते । व्रजेनोपरोधं, व्रजोपरोधं, व्रजे उपरोधं व्रजोपरोधं गाः स्थापयति । पाणिनोपकर्षं पाण्युपकर्ष, पाणावुपकर्ष, पाण्युपकर्ष गृहाति ॥
प्रमाणसमासत्त्योः ॥ ५ । ४ । ७६ ॥
गम्ययोस्तृतीयान्तेन सप्तम्यन्तेन च योगे तुल्यकर्तृकाडातोः सम्बन्धे णम्वा || आयाममानं प्रमाणम् । समासत्तिः संरम्भपूर्वकः सन्निकर्षः । द्व्यङ्गुलेनोत्कर्ष द्वयगुर्लोत्कर्ष, द्व्यङ्गुले उत्कर्ष द्वयगुलोत्कर्ष गण्डिकाश्छिन्नत्ति | केशग्रहं केशग्राहं, केशेषु ग्राहं, केशग्राहं युध्यन्ते । पक्षे, द्व्यङ्गुलेनोत्कृष्य गण्डिकाछिनत्ति ।
पञ्चम्या त्वरायाम् ॥ ५ । ४ । ७७॥
गम्यायां तुल्यकर्तृकाडातोः सम्बन्धे णम्वा ॥ शय्याया उत्थायम्, शय्योत्थायं धावति । पक्षे, शय्याया उत्थाय धावति । त्वरायामिति किम् ? | आसनादुत्थाय याति ।।
द्वितीया ॥ ५ । ४ । ७८ ।।
योगे त्वरायां गम्यायां तुल्यकर्तृकार्थाद्धातोः सम्बन्चे णम्वा ॥ लोष्टान्ग्राहं, लोष्टग्राहं युध्यन्ते ॥
स्वानावेण ॥ ५ । ४ । ७९ ॥
द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद्धातोः सम्बन्धे णम्वा ॥ यस्मिन्नङ्गे छिन्ने भिन्ने वा प्राणी न म्रियते तदध्रुवम् । भ्रुवौ विक्षेपं