________________
उत्तरकृदन्तमकरणम् (२७३) करग्राहम् । हस्तवर्त्त वर्तयति । करवर्त वर्तते ॥
बन्धेर्नानि ॥ ५। ४ । ६७ ॥ बन्धेरिति प्रकृति मषिशेषणं च, बन्धेबन्धनस्य यन्नाम संज्ञा तद्विषयात्करणार्थात्पराद् बन्धेस्तस्यैव सम्बन्धे णम्वा । क्रौञ्चबन्धम्बद्धः।
आधारात् ॥ ५। ४ । ६८॥ बन्धेस्तस्यैव सम्बन्धे णम्वा ॥ चारकबन्धम्बद्धः॥
कीवपुरुषान्नश्वहः ॥ ५।४।६९ ॥ यथासङ्ख्यं तस्यैव सम्बन्धे णम्वा ॥ जीवनाशन्नश्यति। पुरुपवाहं वहति । करिति किम् ? । जीवेन नश्यति ॥
ऊर्ध्वात्पूःशुषः ॥ ५। ४ । ७० ॥ कत्तुस्तस्यैव सम्बन्धे णम्वा ॥ ऊर्ध्वपूरं पूर्यते । ऊर्ध्वशोषं शुष्यति॥
व्याप्याच्चेवात् ॥ ५। ४ । ७१ ॥ कतर्धातोस्तस्यैव सम्बन्धे णम्वा ॥ सुवर्णनिधायं निहितः। काकनाशं नष्टः ॥
उपाकिरो लवने ॥ ५। ४ । ७२॥ पातोस्सम्बन्धे णम्वा ॥ लवन इति वचनात्तस्यैवेति निवृत्तम् । उपस्कारं मद्रका लुनन्ति । लवन इति किम् ? । उपकीर्य याति ॥
दशेस्तृतीयया ॥ ५। ४ । ७३॥ योगे तुल्यककार्थादुपपूर्वाद्धातोः सम्बन्धे णम्वा ॥ मूलकेनो पदंशं भुङ्क्ते। मूलकोपदेशं भुङ्क्ते । मूलकेनोपदश्य भुइन्ते ॥ ...--हिंसार्थादेकाप्यात् ॥ ५। ४ । ७४ ॥