________________
(२७१)
उत्तरकृदन्तप्रकरणम्.
शापे व्याप्यात् ।। ५ । ४ । ५२ ॥
गम्ये तुल्यकर्तृकार्यात् कृगो धातोः सम्बन्धे ख्णम् वा ।। चोरकारमाक्रोशति । शाप इति किम् ? । चौरं कृत्वा हेतुभिः कथयति । स्वार्थाददीर्घात् ॥ ५ । ४ । ५३ ॥
व्याप्यात्परात्तुल्यकर्तृकार्थात्करोतेर्धातोः सम्बम्धे ख्णम् वा ॥ स्वादुङ्कारं भुङ्क्ते । मिष्टङ्कारं भुङ्क्ते । पक्षे, स्वादुं कृत्वा । अदीर्घादिति किम् ? | स्वाद्वीं कृत्वा यवागूं भुङ्क्ते ॥
विग्भ्यः कात्स्न्ये णम् ॥ ५ । ४ । ५४ ॥
कावतो व्याप्यात् तुल्यकर्तृके प्राक्कालेऽर्थे धातोः सम्बन्धे वा ॥ अतिथिवेदं भोजयति । कन्यादर्श वरयति । काय इति किम् ? | अतिथिं विदित्वा भोजयति ।
यावतो विन्दजीवः ॥ ५ । ४ । ५५ ॥
कावतो व्याप्यात् तुल्यकर्तृकात् धातोः सम्बन्धे णम्वा । यावद्वेदं भुङ्क्ते । यावज्जीवममधीते ॥
चर्मोदरात्पूरेः ॥ ५ । ४ । ५६ ॥
व्याप्यात्तुल्यकर्तृकार्थाद्धातोः सम्बन्धे णम्वा । चर्मपूरमास्ते । उदरपूरं शेते ॥
वृष्टिमाने उलुक् चास्य वा ॥ ५ । ४ । ५७ ॥ व्याप्यात्पूरयतेर्णम्वा समुदायेन गम्ये धातोः सम्बन्धे || गोष्पदप्रम्, गोष्पदपूरं दृष्टो देवः ।
चेलार्थात्क्नोपेः ॥ ५ । ४ । ५८ ॥ व्याप्यात्तुल्यकर्तृकार्थानुष्टिमाने गम्ये धातोः सम्बन्धे णम्बा ॥